________________
( २५४ ) जैनस्तोत्रसन्दोहे [श्रीधर्मघोष-.. नन्दीश्वरद्वीपचैत्यस्तुतिः
श्रीमन्नन्दीश्वरद्वीपेऽप्रतिमाः प्रणुताऽच्युताः । द्विपञ्चाशति चैत्येषु प्रतिमाः प्रणुताऽच्युताः ॥३३॥ शाश्वताऽशाश्वतबिम्बस्तुतिःयद्यात्मनिच्छसि स्थानमकृत्रिममकृत्रिमम् ।
जैनबिम्बव्रजं तद्धेऽम कृत्रिमकृत्रिमम् ॥३४॥ त्रिकालजिनस्तुतिः--
ये जिनेन्द्रान् नमस्यन्ति साम्प्रतातीतभाविनः ।,
दुष्कृतात् ते विमुच्यन्ते साम्प्रतातीतभाविनः ॥३५॥ साधारणजिनस्तुतिः
परात्मानो जिनेन्द्रा यैर्नीयन्ते मानसं प्रति । पदं यान्ति जगन्माननीयं ते ऽमानसं प्रति ॥३६॥ आगमस्तुतिःसोऽस्तु मोक्षाय मे जैनो नयसङ्गत आगमः । अपि यं बुध्यते विद्वानयसङ्गत आगमः ॥३७॥
अवचूरिः। अप्रतिमा:-प्रधानाः । प्रणुताच्युताः-नतेन्द्राः । अच्युताःशाश्वताः। प्रणुत-स्तुत ॥ ३३ ॥ अकृत्रिमं-कौटिल्यरहितम् प्रशस्तभावमित्यर्थः । 'अम शब्दभक्त्योः । भज-सेवस्व ॥ ३४ ॥ परमात्मस्वरूपाः । ते भव्याः अमा-निश्रीका न सम्प्रत्यपि। अपिगम्थः । यद्वा अमाना-अपरिमिता सा-लक्ष्मीर्यत्र तद अमानसं पदं तत् प्रतियान्ति ॥ ३५ ॥ नयैः-नैगमादिभिः सङ्गतः समन्तात् अनुगतः । गमाः-सहशपाठाः यत्र स आगमः । अपिः भिवक्रमे । विद्वानपिसुधीरपि । अयः-शुभावहं देवं तस्य संयोगात् ॥ ३७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org