________________
हरिप्रणीताः] चतुर्विशतिर्जिनस्तुतयः (२५३) शिवार्थी सेवते ते श्रीपार्श्व ! नालीककोमलौ । न क्रमावनिशं नम्रपार्श्व ! नाऽलीक ! कोऽमलौ ॥२८॥ वरिवस्यति यः श्रीमन्महावीरं महोदयम् ।
सोऽश्नुते जितसम्मोहमहावीरं महोदयम् ॥२९॥ श्रीसीमन्धरजिनस्तुतिः--
श्रीसीमन्धरतीर्थेशं सादरं नुतनिर्जरम् ।
योऽज्ञानं विदधे भस्मसादरं नुत निर्जरम् ॥३०॥ पञ्चदशक्षेत्रजजिनस्तुतिः
ये वन्दन्तेऽर्हतो भारतैरावतविदेहकान् ।
प्राप्यते प्रवरोदर्का तै रा बत विदेहकान् ॥३१॥ सप्ततिशतजिनस्तुतिः
सप्ततिशतं जिनानामुत्कृष्टपदवर्तिनाम् । वन्दे मनुष्यलोकेऽहमुत्कृष्टपदवर्तिनाम् ॥३२॥
अवचूरिः । नम्रः पार्थो यस्य सः सं० । असत्यरहित ! अमलौ-निर्मलौ ॥ २८ ॥ महान उदयो यस्य तम् । अश्नुते-प्राप्नोति । महोदयंनिर्वाणम् ॥ २९॥ नुत-स्तुत । निर्जर-जरारहितम् । नुतनिर्जर-प्रणुतसुरम् ॥ ३० ॥ भरतरावतविदेहकेषु भवान् , भरतैरावतविदेहकेषु नाकन्ति-शोभन्ते 'क्वचित् ' ( ) प्रवरोदर्का-शुभायतिफला पुण्यानुबन्धिपुण्यफला इत्यर्थः । रा-लक्ष्मीः। बत इत्यामन्त्रणे । विदेहकान्-विदेहान् ॥ ३१ ॥ सर्वोत्कर्षतो युगपत् एककालभाबिनाम् । उस्कृष्टपदे-प्रधानपदे ॥ ३२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org