________________
( २४४ )
[ श्रीधर्मघोष
सोऽयं सर्वजनीनकल्पविटपी चिन्तामणिः कामधुक श्रीपार्श्वो भवताद जागृहगतो नित्यं मुदे देहिनाम् ॥ १ ॥
कासश्वासभगन्दरोदरगलग्रन्थिव्यथाविह्वला
दुष्टाष्टादशंकुष्टजातिगलितक्षेत्रा अपि प्राणिनः । यन्नामाक्षरकीर्तनामृतरसैः कल्या भवन्ति ध्रुवं
श्रीपार्श्व तमहं नमामि तरसा शङ्खश्वरावस्थितम् ॥२॥ नष्टा कष्टपरम्परा परिभवो दूरे न दैन्यं क्वचिद्
रोगः शान्तिमुपैति याति कुमतिर्नैवास्ति तेषां भयम् । निर्वाणाध्वनि सार्थवाहमसमं ध्यायन्ति ये मानवा
वामेयं प्रकटप्रभाववसतिं श्रीस्तम्भनावस्थितम् ॥ ३ ॥ भूपाला भुवि पार्श्वनाथ ! भगवन् ! राज्योन्नतिं सेवकाः
स्वामित्वं सकलार्थसाधककतमं निःस्वा धनानि प्रभो ! । रोगार्त्तास्तदभावमापुरपरे सर्वार्थकामान्नरा
स्त्वत्तः साधुजनाः शिवं प्रशमिनो जावालिदुर्गस्थितेः ॥ ४॥ यः पूज्यो जगतां नमन्ति सुधियों यं येन मोहो जितो
जनस्तोत्रसन्दाह
यस्मै संस्पृहयन्ति चारुमतयो यस्माच्छुभं देहिनाम् । यस्यानन्तचतुष्टयं निरुपमं यस्मिन् स्थितं सद्गुणैः
स श्रीपार्श्वजिनेश्वरो वितरताच्चारूपसंस्थः शिवम् ॥ ५ ॥ भोगिस्कन्धनिबद्धपादयुगलं स्फूर्जत्फणाडम्बरं
कायोत्सर्गजुषं शिरीषनगरप्रासादलब्धोदयम् ।
ध्यानस्थं कमठोपसर्गविगमे कैवल्यलक्ष्मीयुतं
Jain Education International
श्रीपार्श्व जगतां विदारितरुजं पश्यन्ति धन्या जनाः ॥६॥
For Personal & Private Use Only
www.jainelibrary.org