SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ( २४२ ) जैनस्तोत्रसन्दोहे [श्रीधर्मघोष जीवः सत्यकिसंज्ञस्यैकादशः सुव्रतो जिनः । कृष्णस्य शाङ्गिणो जीवोऽममाख्यो द्वादशो जिनः ॥ ७ ॥ बलदेवस्य जीवोऽर्हन् निष्कषायस्त्रयोदशः । रोहिणीश्राविकाजीवो निष्पुलाकश्चतुर्दशः ॥ ८ ॥ निर्ममः सुलसायास्तु जीवः पञ्चदशो जिनः । रेवतीश्राविकाजीवश्चित्रगुप्तस्तु षोडशः ॥ ९॥ जीवो गवालिनामाऽस्ति समाधिः सप्तदशोऽर्हन् । जीवो मार्गलिसंज्ञस्याष्टादशः संवराभिधः ॥ १० ॥ जीवो द्वैपायनस्यैकोनविंशोऽर्हन् यशोधरः । जीवः कर्णस्य विंशस्तु विजयाख्यो जिनेश्वरः ॥ ११ ॥ जीवस्तु नारदस्यैकविंशो मल्लाभिधो जिनः । अम्बडस्य तु जीवोऽर्हन् द्वाविंशो देवनामकः ॥ १२ ॥ त्रयोविंशो जिनोऽनन्तवीर्योऽव्यादमरस्य तु । जीवः स्वातेर्जिनो जीयाच्चतुर्विंशोऽत्र भद्रकृत् ॥ १३ ॥ इत्याख्या जीवसंज्ञाभिः संस्तुता भाविनो जिनाः । विश्राणयन्तु मे शीघ्रं श्रेयः संश्रेयर्सी श्रियम् ।। १४ ॥ [ ९४] श्रीपार्श्वनाथस्तवनम् । जय जय जिणिंद ! तिमसिंदविंदवंदिअपयारविंदजुअ !। सिरिपासनाह ! मणवंछिअत्थसंपायणसमत्थ ! ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy