SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ (१०) जैनस्तोत्रसन्दोहे। शमदमनियमतपस्याकमलाकमलोपमाकलितः ॥ ८६ ॥ आर्यखपटसमयस्तु श्रीवीरमुक्तितः शतचतुष्टये चतुरशीतिसंयुक्ते ॥ ४८४ ॥ वर्षाणां समजायत श्रीमानाचार्यखपटगुरुः ॥ ७९ ॥ विशेषार्थिना विलोकनीयो मुनिश्रीकल्याणविजयेन गुर्जरगिरायां सङ्कलितः प्रभावकचरित्रोपोद्घातः । ५. श्रीबप्पट्टिसरिः कान्यकुब्जमण्डनगोपगिरिशासकश्रीमदामनृपतिप्रतिबोधकोऽयं सूरिः। सहृदयहृदयानन्दजनकं चरित्रमस्य विस्तरेण व्यावर्णितं दृश्यते प्रभावकचारित्रादौ, तत्सारस्त्वेवम् "पाञ्चालदेशे डुम्बातिथिग्रामे इदानों 'डुवा'इतिख्याते' बप्पाख्यः क्षत्रियः, तस्य भट्टि म सधर्मचारिगी, तयोः सूरपालः पुत्रः । श्रीविक्रमादित्यादष्टशतवर्षेषु (८००) गतेषु भाद्रपदशुक्लतृतीयायां रविदिने हस्तः जन्म । वि० सं० ८०७ वर्षे मोढेरके श्रीसिद्धसेनाचार्यान्तिके दीक्षा । गुरुभिः प्रदत्तं भद्रकीर्तिरिति नाम तथापि प्रसिद्ध जगति बप्पभट्टिरिति । उक्तं च शताष्टके वत्सराणां, गते विक्रमकालतः । सप्ताधिके राधशुक्लतृतीयादिवसे गुरौ । स्वाख्यात्रिकैकादशकाद् , भद्रकीर्तिरिति श्रुतम् । तत्पित्रोः प्रतिपन्नैव, पूर्वाख्या तु प्रसिद्धिभूः ॥ वि० सं० ८११ वर्षे सूरिपदप्रतिष्ठा । यदाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy