SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २२४ ) जैनस्तोत्र सन्दोहे असमाननक्रमकरं समाश्रयं जलपतत्रिवर्गाणाम् । नमिनाथं सज्जनदत्तरङ्गमानमत भुवनपतिम् ॥ २२ ॥ श्रेयः संवरदस्य श्रीनेमेलींला तनोतु वः । पिप्रतो जगतिं गोभिर्यादवोल्लासवर्द्धिनी ॥ २३ ॥ अमृतकरः पार्श्वजिनो हरिणाङ्कितविग्रहः कलानिलयः । नन्द्यात् तमालसत्तमरुचिरच्छविरौषधीभर्ता ॥ २४ ॥ धत्ते योजनलक्षोच्चैर्मानं योगधुरन्धरः । कल्याणगोत्रः श्रीवीरः सोऽस्तु सन्नन्दनः श्रिये ॥ २५ ॥ अवचूरिः । निरुपममुखचरणपाणिम् उपलक्षणत्वात् सर्वाङ्गसुभगम् । जडेषु पततां होयमानानाम् धर्मार्थकामानां आधारम् । राजाद्यवस्थायां युक्त्या तन्निषेवणात् । सत्प्राणिक्लृप्तानुरागम् । जगत्पतिम् । क्षे महान्तो विसदृशा वा नक्रमकरा - जलचरजन्तुविशेषा यत्र । जलपक्षिसमूहानां आधारम् । अमन्दाः स्वनन्तः कल्लोला यत्र । भुवनं - जलं तत्पतिं समुद्रमिति विशेष्यम् ॥ २२ ॥ शिवसुखं कर्म । पालयन्तीति । विश्वम् । वाग्भिः । पक्षे शम्बरं-जलम् तद्दोऽम्बुदस्तस्य । पूरयन्ती भुवं जलैः या दवानलवृद्धिच्छेदिनी ॥ २३ ॥ शिवकरः | अहिना लान्छितवपुः कलानां स्थानम् । तमालो वृक्षविशेषस्तद्वद्वुचिरच्छविः । अच्छा-स्वच्छा विगतरोगा धीर्यस्य स तथा । भर्ता - स्वामी । पक्षे चन्द्रः - मृगाङ्किततनुः । षोडशोऽंश:कला । रजना - लसत्तमा रुचिरा च्छविर्यस्य । औषधीनां पतिःभर्त्ता इति तत् कर्मणिं द्वितीया शस् ॥ २४ ॥ Jain Education International [ श्रोमिनप्रभ For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy