SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] चतुर्विंशतिजिनस्तवः अवामनतरङ्गौको गभीरस्तिमिराजितः । श्रिये समकरो वः स्तादरनाथो महोदधिः ॥ १९ ॥ मल्लिर्महाबलोऽनलसख्यातिप्रथित उच्चकै रयवान् । विदधदहिंसोपचयं पुनातु हरिणादृतो भव्यान् ॥ २० ॥ कृतभूतनयादेश उच्चैरक्षोभयावहः । सौमित्रिर्नन्दतात् पद्मानन्दनो मुनिसुव्रतः ॥ २१ ॥ ( २२३ ) अवचूरिः । अनुकूलः सन्तो ये नतास्तेषां भक्तिरागस्य स्थानम् । अतुच्छ ः । अज्ञानेन अजितः । निरुपमहस्तः- सभीहस्तः आविषमहस्तो वा । तेजो धारयन् । महानां - उत्सवानां उदधिर्वा । पक्षे उच्चकलालानां स्थानम् । पर्वत भीक्षेपकः । मत्स्यशोभितः । मकरैः सहितः । महान् समुद्र इति विशेष्यम् ॥ १९ ॥ अतिशायिबलः । अमदकीर्त्तिप्रख्यातः । भाग्यवान् । कुर्वन् जीवदयापोषम् । इन्द्रेण प्रतिपन्नः । पक्षे वायुः भग्निमैत्र्या अतिविख्यातः । वेगवान् सर्प सपोषम् । मृगं प्रतिपन्नम् तस्य हरिणवाहनत्वन, पृषदश्वत्वात् ॥ २० ॥ सम्पादितस भूतनयोपदेशः, कृतजन्तुनयादेशो वा । स्थिरलक्ष्यावहः । सुमित्रस्य राज्ञोऽपत्यम् । पद्मा भगवतो जननी । पक्षे कृतसीवादेशः । रक्षसां भयावहः । सुमित्राया अपत्यं लक्ष्मण इति विशेष्यम् । पद्मोऽष्टमबलदेवः ॥ २१ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy