SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्रसन्दोहे पद्मप्रभः सौमनसं धर्म बिभ्रत् सदाशये । उमाविभूषितः पातु प्रद्युम्नः श्रीधराङ्गजः ॥ ६ ॥ ( २१८ ) विधुरविधिषणस्नेही पृथ्वीतनयः सुवर्णवर्णतनुः । भवतु सुपार्श्वो भयदप्रतीपचर्यः श्रिये वक्रः ॥ ७ ॥ [ श्रोजिनप्रथ चन्द्रप्रभ ! श्वेतरुचे ! तावकी मूर्त्तिरस्यति । तापं प्रजाया विश्वस्यास्ततमादधती शशम् ॥ ८ ॥ अवचूरिः सुमनसां अयं सौमनसः शुद्ध इति यावत् तं धर्म सदाशयेचित्ते धरन् । यशोऽलङ्कृतः । प्रकृष्टं द्युम्नं बलं यस्य स तथा । श्रीधरः - प्रभोः पिता । पक्षे पौधे चापं धरन् । सदा-निरन्तरम् - शये - करे हस्ते । उमाविभुना-ईश्वरेण उषितः - दग्धः । ' ऊषू दाहे ' इत्यस्मात् के । ऊष रुजायाम्' इत्यस्मात् के ऊषितः । कन्दर्पः । विष्णुतनयः श्रीनन्दनत्वात् ॥ ६ ॥ मन्देषु - विशिष्टमतिषु च स्नेही तत्कृपाकारित्वात् भगवतः । - पृथ्वी भगवतो माता । भयदानां शेगादोनां प्रतीपा - प्रतिकूला चर्या. विहारो यस्य स तथा । तस्मिन् विहरति तेषामभावात् । पक्षे चन्द्रसूर्यबृहस्पतीनां मित्रम् । ज्योतिःश शास्त्रप्रसिद्धत्वात् । मङ्गलः । कुङ्कुमवर्णः । भयकारिणी वक्रा चर्या यस्य स तथा । वक्रगामित्वाद् वक्रः ॥ ७ सितकान्ते ! निराकृताज्ञाना । तन्वती शम् । - सौख्यम् । पक्षे चन्द्रः ध्वंस्तान्धकारा । शशं- लाञ्छनं धरन्ती ॥ ८ ॥ * आदधती शशम् । पक्षे आदधती हे ईश ! शम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy