________________
सूरिप्रणीतः ]
चतुर्विंशतिजिनस्तवः
( २१९ )
नारीणां हृदि निवसस्यनिरुद्धगुरुप्रथोज्ज्वलशरीर ! | रामेय ! मकरकेतो ! सुविधे ! वृषभासनविदग्ध ! ।। ९ ।।
जनतापापहृत्कुल्याञ्चित श्रीरमृतप्रदः ।
हरिस्तोमाभिनन्द्यो वः शीतलोऽव्याद् घनागमः ॥ १० ॥
अवचूरिः
८
"
अरीणाम्-भगवदाज्ञालोपकारित्वात् मिथ्यादृष्टीनां हृदि निवास न वितनोषि । अस्खलित प्रौढकोर्ते ! शुक्लवर्णत्वात् श्वेतकाय ! | रामाभगवन्माता तस्या अपत्यम् । ङ्याप्ट्यूङः ( सिद्ध७ ६ |१| ७० ) इत्यनेन यणि रामेय ! | मकरलाञ्छन ! | पुण्यप्रकटन निपुण ! | एतान्यामन्त्रणपदानि । पक्ष स्त्रीणां वित्ते निवससि । अनिरुद्धोऽनङ्गसुतः । अनिरुद्धः सुतस्तस्य' ( ततस्तस्य गुरुः पितृत्वात् । ततो निरुद्धगुरुरिति प्रथा - कीर्तिर्यस्य स तथा । अथवा अनिरुद्धेन गुर्वी पृथा यस्येति तस्य सम्बोधनम् | उज्ज्वल:- शृंगारो रसः स शरीरं यस्य स तथा मन्मथत्वात् । तस्य । श्रीनन्दनः । मकरध्वजः | वृषभासन - ईश्वरस्तेन विशेषेण दग्धः ॥ ९ ॥
)
प्रजापापहारकः । कुलीनैः पूजित ! - स्तुत ! | अष्टमहाप्रातिहार्यादिका श्रीर्यस्य स तथा । 'महानन्दोऽमृतं सिद्धि: ? ( अभि० का. १, श्लो०७४ ) इतिवचनात् अमृतप्रदः - सिद्धिदः । इन्द्रसमूहस्य : पूज्यः । घनः परतीथः छेत्तुमशक्यत्वात् । निबिड : आगमः - समयो यस्य स तथा । पक्षे लोकतापविनाशकः । कुल्यासु नदीषु अञ्चिता समवया उदकरूपा श्रीर्यस्य । कुल्याभिः अञ्चिता-अङ्गीकारतः पूजिता: श्रीर्यस्येति वा स तथा । नोरदायकः मण्डूकगणस्पृहणीयःवर्षाकालः ॥ १० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org