SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः] चतुविशतिजिनस्तवः १.२१७) श्रीमान् कैरवबन्धुरविलोचनो गारुडच्छविवपुर्वः । शम्भवजिनोऽस्त्वहीनस्थितिभाक् तार्यध्वजः प्रीत्यै !॥ ३ ॥ मुदेऽभिनन्दनः स्ताद् वः सुभद्राभोगभाजनम् । सद्धर्मसंयुगरतो भरजैत्रः कपध्विजः ॥ ४ ॥ हर्षितकोकविनिवहस्तुत्योदयजनयितः कृतान्तस्य । श्रीसुमते ! जीयाश्चिरमिन ! त्वमुच्चैरुषाहन्तः ! ॥ ५ ॥ अवचूरिः। कैरवबन्धुरे विलोचने-नयने यस्य स तथा सुवर्णच्छविशरीरः । समां स्थिति:आचारं चैत्यतरु-प्रदक्षिणां-सङ्घप्रणामादिकां भजते यः स तथा । ताय -अश्वः ध्वजो-लाञ्छनं यस्य । पक्षे श्रियः पतिः। करवबन्धुरवी-चन्द्रसूर्यो विलोचने यस्य स तथा। मरकतकान्तिकायः। अहीनां इन:-शेषनागराजः तत्र स्थिति-स्थानं भजते यः स तथा। सायो-गरुडो ध्वजः-वाहनं यस्य ॥ ३ ॥ शोभनानां-भद्राणां यः आभाग:-विस्तारः तस्य · भाजमंआस्पदम् । सन्तम्-शोभनम् । देशविरतिरूपं धर्म संयुनक्ति इति सद्धर्मसंयुक् जनेषु इति गम्यते । अविद्यमान रतं-कन्दपो यस्य स तथा । उष्ट्रमुखादित्वात् विद्यमावलोपः संसारजेता। वानरलाञ्छनः । पक्षे सुभद्रा-अर्जुनभार्या तस्या यो भोगः-सेवन तस्य स्थान तत्कास्त्विात् एवं उक्तिः । सद्धर्मणा-प्रधानधनुषा गाण्डीवाभिधानेन संयुगे-सङ्ग्रामे रतो-रतिमान् । हरजेता-किरातरूपधारिणः शम्भोः तेन रणे पराजितवान् अर्जुनः ॥ ४ ॥ ____ हर्षिता-हर्ष प्रापिता कु:-पृथ्वी येन स तथा। तस्यामन्त्रणम्।। ‘राद्धसिद्धकृतेभ्योऽन्तः' ( अभि. का. २ श्लो. १५६.) इति निघण्टुवचनात् । कृतान्त:-सिद्धान्तः वस्य हे जनयितः !-निष्पादक! पक्षे हर्षितः कोकसंज्ञानां वोना-पक्षिणां निवहो येन । कृतान्तस्ययमस्य पितः!-सूर्य ! रात्रिविनाशक! ॥ ५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy