SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ( २१.६ ) जैनस्तोत्र सन्दोहे [ ८७ ] श्रीजिनप्रभसूरिप्रणीतः श्रीचतुर्विंशतिजिनस्तवः । ( श्लेषमयः ) यं सप्तप्तमक्षमालोपशोभितं सेवते ऽमरालीशः । कमलासनः स्वयम्भूः स श्रीमान्नाभिभूर्जयति ॥ १ ॥ [ श्रीजिनप्रम अहितासननिष्णातः पुरुषोत्तमसंश्रितः । विनतानन्दनो विश्वविनेताऽवतु वो जिनः ॥ २ ॥ श्रीजयचन्द्रसूरिकृता अवचूरिः । कमलासनो... सनोति- ददाति ।' घणूयी दाने ' इष्यस्य । इन्द्रः । सर्वातिशयसूचनी प्रथमार्यापक्षे स्वयम्भूः - ब्रह्मा । कमलासनं यस्य स तथा । हंसः । सेवत इति सण्टङ्कः ॥ १ ॥ Jain Education International हिंसादिप्ररूपणपराणां परेषां शाक्य - साङ्ख्याऽक्षणपादादीनां अहिताना असने-निराकरणे निष्णातः- निपुणः । विनतानां प्रणतान आनन्दनः- मोददः । विश्वं विनयति शास्त्रीत्येवंशीलो विश्वविनेता | पक्षे अहीनां सर्पाणां तासने शयनमने दक्षः । पुरुषोत्तमं विष्णुं संश्रितः । विनता- सुपर्णी तस्या नन्दनो - गरूड इत्यर्थः । विश्वेषां सर्वेषां वीनां पक्षिणां नेता प्रभुः ॥ २ ॥ 1 For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy