________________
विनिर्मितम् ]
पार्श्वजिनस्तवनम्
( २१५ )
मलानामलानाय बोभूयमानः शमानाशमानाय मालोयमानः । घनानां धनानां रुचिं प्रास्यमानः स्वकान्त्या स्वकान्त्या नितोऽव्याज्जिनो माम् ॥ १५ ॥
सुखाने ! सुखानेकधाम्नां कधाम्नां भवाने भवानेतृकोऽपि च्छिदेऽर्हन् । प्रमाद प्रमादक्षयाय क्षयाय व्रजस्य व्रजस्य प्रधानस्य लब्ध्यै ॥१६॥
क्षमाद क्षमादस्वपादप्रसादभ्रमादभ्रमादप्रणाश प्रणादम् । महाना महानागदंकार ! सार ! प्रभो ! मे प्रभोमे दिश त्वं जिनेन्द्र !॥१७॥ मनोभूषणं भूषणं विश्वविश्वे महः पूषणं पूषणं मोहवृत्ते । समध्यासितं ध्यासितं नम्रदेवं रमाराजितं राजितं नौमि देवम् ॥ १८ ॥ बुसन्मौलिसन्मौलिपृष्ठाङ्घ्रिपद्मः सुकल्याण कल्याणसिंहासनस्थः । समाधानमाधानदक्षो मतक्षो रमा रातु मारातुरत्वच्छिदेऽर्हन् ॥१९॥ योगतो योगतो निवृतिं निवृतिं नीरतो नीरतोषप्रदस्तीर्थपः । साधितः साधितव्याधिनाशोऽवतादानतो दानतोशाब्धिभिर्वै बुधैः ॥ २० ॥ इति जिनेश्वर सुरिनुतो गुणैरमलसत्क्रम ! देहि शिवालयम् ।
त्वमिह पार्श्व ! कृतप्रणतप्रभा
Jain Education International
रम ! लसत्क्रम ! देहि शिवालयम् ॥२१॥
For Personal & Private Use Only
www.jainelibrary.org