SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ . कि. व्या (८) जैनस्तोत्रसन्दोहे। . तत्रभवतो वीरनिर्वागात् ४९६ तमेऽब्दे जन्म, (८ वर्षाणि गृहस्थपर्यायः) ४४ वत्सराः श्रमणपर्यायः, ३६ शरदो युगप्रधानपदवी, सर्वायुः ८८. संवत्सराः, वीरनिवार्णतः ५८४ वर्षान्ते स्वर्गगमनम् । श्रीमतो विद्यमानतायां विक्रमतः १०८ तमेऽब्दे जावडसाधुना कृतः शत्रुञ्जयस्योद्धारः विहिता तत्र पूज्यपादेन प्रतिष्ठेति पट्टावली । मुद्रितेऽत्र (पृ. ११४) श्रीगौतमस्तोत्रेऽधिकं पद्यमिदं दृश्यतेऽश्चलगच्छीयपञ्चप्रतिक्रमणस्य मुद्रितपुस्तके तचैवम् । किं त्रैलोक्यरमाकटाक्षलहरीलीलाभिरालिङ्गिता ? ____किं वोत्पन्नकृपासमुद्रमकरोद्गारोत्करम्बोकृता । किं ध्यानानलदह्यमाननिखिलान्तःकष्टकष्टावलीरक्षाभिर्धवलीकृता मम हृदि श्रीगौतम ! त्वत्तनुः ॥ १० ॥ ३. आर्यनन्दिल: परिचयोऽस्य प्रभावकचरित्रात् कार्यः, अयमेवार्यानन्दिलक्षमाश्रमणः वैरोट्यारतवं निर्मितवानिति प्रभावकचारित्रान्तर्गततदीयप्रबन्धे-श्रीआर्यनन्दिलः स्वामी वैराट्यायाः स्तवं तदा । - ' नमीऊग जिणं पास ' मिति मन्त्रान्वितं व्यधात् ॥ ८० ॥ इत्यादिना सूचितम् । स्तवान्तेऽपि ' अज्जाणंदिलेण संदिद्वं' इत्यत्र अजानंदिल इति नाम निर्दिष्टम्, श्रीआर्यरक्षितवंशीयः सार्धनवपूर्वधरोऽयमाचार्यः यदुक्तं प्रभावकचरित्रेआर्यरक्षितवंशीयः स श्रीमानार्यनन्दिलः । संसारारण्यनिर्वाहसार्थवाहः पुनातु वः ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy