________________
सूरिविरचितम्] श्रीपार्श्वजिनस्तोत्रम् (१९५) हेतुः सर्वसमीहितस्य भवतः पादप्रसादः परं
तस्माद् देव ! भवे भवे मम भवेत् त्वत्पादसेवासुखम् ॥२३॥ इति जगति दुरापाः कस्यचित् पुण्यभाजो
बहुसुकृतसमृद्ध्या सम्भवन्त्येव वाचः । जिनपतिरपि यासां गोचरे विश्वनाथो
दुरितविजयसिंहः सोऽस्तु नेमिः शिवाय ॥ २४ ॥
... [७९ ] ... श्रीजिनवल्लभमरिमणीतं
श्रीपार्श्वजिनस्तोत्रम्।
पायात् पार्श्वः पयोदद्युतिरुपरि फणिस्फारफुल्लत्फणाली
बिभ्रद् विस्फूर्जदूर्जस्वलमणिकिरणासूत्रितेन्द्रायुधां वः । संरूढप्रौढकर्मद्रुमवनगहनप्लोषपुष्यद्विशुद्ध___ ध्यानाग्निज्वालमालानुकृतिसकृतया सप्तधा प्रोल्लसन्ती ॥१॥ सद्भक्तिव्यक्तियुक्तत्रिदशपतिनमन्मौलिमन्दारदाम
श्थ्योतत्किञ्जल्ककल्कव्यतिकरकबरोदारपादारविन्द !। दृष्टया पीयूषसृष्टया दधदखिलजनवातमातङ्कमुक्तं
भव्यानव्याजमव्याद् भवदवदवथून्मन्थितान् पार्श्वनाथः ॥२॥ सम्पत्पूर्ण तु किन्तु प्रमदमयमथो निर्मितं शर्मणे हो . रोहत्कल्याणवल्लिप्रचयमुत भवन्नाकिलोकावतारम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org