SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितम् ] श्रीनेमिजिनस्तवनम् त्वं संसारमरौ निरन्तरमहादुःखाकुले देहिनां मार्गः स्वर्गपुरस्य नाथ ! विततः किंवाऽपवर्गस्य च ॥१२॥ शुक्लध्यानसरो विनीलनलिनाकारोऽपवर्गद्रुम च्छायाबन्ध इवैककेवलिदृशोर्मध्ये स्फुरत्तारकः । नीलाश्मप्रभवत्तदेकममलं पात्रं परं ज्योतिषः कुर्याद् योगबलच्छविः सुकृतिनां नेमिर्विशुद्धं पदम् ॥१३॥ आकर्णायतयोविनीलनलिनश्वेताम्बुजाप्तश्रियोः किञ्चिन्मन्थरयोर्मनाग् मसृणयोरुद्वृत्तसत्तारयोः । कारुण्यामृतसारिणीसरलयोः संसन्धयोः सर्वदा नेमेर्यामि बलिं दृशोऽस्तु वसुधाश्वेतच्छटाच्छाययोः ॥१४॥ त्रैलोक्यालम्बदण्डः परमपदगृहारोहनिःश्रेणिदण्डः कन्दर्पाघातदण्डो भवजलधिपतेर्देहिनां सेतुदण्डः ।. दोर्दण्डः पातु नेमेनरकपुरमहाद्वाररोधैकदण्डः सद्धर्माधारदण्डो हरिनिबिडकरात् कर्षणान्दोलदण्डः ॥१५॥ . एते मूढधियो वदन्ति किमपि स्वामिन् ! मदीयं मन__ स्त्वेवं कल्पयते त्वमेव भुवने देवाधिदेवः परम् । यत्रैतानि जगन्ति जातविविधव्यावर्त्तनोद्वर्तन- . व्यापाराणि परिस्फुरन्ति सततं विज्ञानरूपे त्वयि ॥१६॥ रागद्वेषविसंस्थुलेन मनसा यत्किञ्चिदासेवितं - जन्मन्यत्र परत्र वा गतिवशात् तैस्तैरुपायैः स्तुमः । तत् सर्व जिनचन्द्र ! सर्वगमहाज्योतिःस्वरूपें त्वयि . प्रत्यासत्यमुपामते हृदि कथं बध्नाति नित्यस्थितिम् ॥१०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy