________________
जैनस्तोत्र सन्दोहे |
चउदसपुञ्वीच्छेओ वरिससए सित्तरम्मि अहियम्मि । भद्दबाहुम्मि जाओ वीरजिशिंदे सित्रं पत्ते ।।
२७१ ॥
— रत्नसञ्चये ।
( ६ )
वीरमोक्षाद्वशते सप्तत्यग्रे गते सति । भद्रबाहुरपि स्वामी ययौ स्वर्गं समाधिना ॥
११३ ॥
- परिशिष्टपर्वणि ९ सर्गे ।
इत्याद्युल्लेख दर्शनाद वीरनिर्वाणाद् द्वितीयशताब्दीरूपः सुनिश्चित एव । पार्श्वनाथ वसतिस्थशिलालेखे निर्दिष्टो भद्रबाहुस्त्वितो भिन्नः । विलोक्यतां तदंश:
X X" महावीरसवितरि परिनिर्वृते भगवत्परमर्षिगौतमगणधरसाक्षाच्छिष्यलोहार्य - जम्बु -- जिष्णुदेवा - - पराजित - गोवर्द्धन - भद्रबाहु - विशाख- प्रोष्ठिल- कृतिकाय - जयनाम - सिद्धार्थ - धृतिषेण - बुद्धिलादिगुरुपारम्परीणक्रमाभ्यागत महापुरुषसन्ततिसमवद्योतितान्वयभद्रबाहुस्वामिना उज्जयिन्यामष्टाङ्ग महानिमित्ततत्त्वज्ञेन त्रिकालदर्शिना निमित्तेन द्वादशसंवत्सरकालवैषम्यमुपलभ्य कथिते सर्वसङ्घ उत्तरापथा दक्षिणापथं प्रस्थितः ।
""
वराहमिहिरभ्रातृत्वे, दुष्काले दक्षिणापथगमनत्वे, चन्द्रगुप्तसमकालीनत्वे च केषुचिद् विद्वत्सु विचारभेदः परं सामजसमाजसम्मर्दे विलोकनमन्तरेण कः किलोपायः शशकशिशोः ? |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org