SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ सूरिविनिर्मिताः ] साधारणजिनस्तवाः (१८३) त्वत्तः समुद्रतः प्राप्तं रत्नत्रयमिदं मम । प्राणात्ययेऽपि नो शक्यं हर्तुमिन्द्रियदस्युभिः ॥ ७ ॥ त्वन्नीत्या कण्टकान् सोढुं गाढोत्कण्ठो यथास्म्यहम् । तथा न सम्पदो भोक्तुं भूर्भुवःस्वःसमुद्भवाः ॥ ८ ॥ तथा त्वयि न मे रागो मोक्षदानकदीक्षिते । त्वदन्येषु यथा द्वेषो नाथ ! नारकवर्मसु ॥ ९ ॥ भवसिद्धान्तपीयूषपानसौहित्यसोत्सवः । लज्जते गर्हते विद्वान् ब्रह्मादीनां विचेष्टितैः ॥ १० ॥ दैन्यं मत्र्येषु कुर्वन्ति मादृशाः किं सति त्वयि । ___ ककुभो भासयत्यन्हां पत्यौ दीपेषु का स्पृहा ? ॥ ११ ॥ देव ! त्वन्मार्गसंवादिदुःखं प्राप्यापि ये हताः । ___ न पापेषु विषीदन्ति पशवस्ते न मानवाः ॥ १२ ॥ शुभोदा क्रियां कर्तु नास्मि लब्धामपि क्षमः । त्वन्निश्चयः फलं किञ्चित् कुर्यात् कुर्यान्न वा न वा ॥१३॥ निषिद्धाधानसोत्कण्ठान् मादृशो विहितद्विषः ।। त्वत्तस्त्राणैकहेवाकान् को नामाद्रियतां परः ? ॥ १४ ॥ शाधि न: कश्मलाचारानेधि नः शाश्वतः पतिः । . आन्तरान् जहि नः शत्रून् देहि नः स्थिरमन्तिकम् ॥१५॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम चन्द्रावदातचरिताञ्चितविश्वचक्र !। . . शक्रस्तुताघिसरसीरुह ! दुःस्थसार्थे देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy