________________
(१८२)
जैनस्तोत्रसन्दोहे [श्रीरामचन्द्रत्वदाज्ञां नानुतिष्ठन्ति यद् द्विषस्ते तदौचिती ।
यद् वयं नानुतिष्ठामस्त्वद्भुजिष्याः स को नयः? ॥१४॥ अर्हअर्हन्निति त्रातस्त्रातुं पूत्कुर्वतो मम । . समं समन्ततः कण्ठः पापं पुण्यं च शुष्यतु ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम
... चन्द्रावदातचरिताञ्चितविश्वचक्र !। शक्रस्तुताङ्घिसरसीरुह ! दुःस्थसार्थे
देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
[७३ ] . सजन्मानमजन्मानं स्थावरं नश्वरात्मकम् ।
विश्वरूपमरूपं च देवं जिनपतिं स्तुवे ॥ १ ॥ सतामुन्मीलयन् दृष्टिं पापपर्क त्वशोषयन् ।
भानुमान् भवतः कोऽन्यो लोकस्यास्य तमस्वतः ? ॥ २ ॥ कषायवह्निना विश्वे ज्वलत्यस्मिन् समन्ततः । :: । त्वमेव पुष्करावर्तों देशनासारमावहन् ॥ ३ ॥
कुतीर्थयायिनां नाथ ! संसारापारवारिधौ । । निर्यामको भवानेव नृणां सर्वपथीनदृक् ॥ ४ ॥ त्वदाधारमिदं येन विश्वं विश्वं चराचरम् ।
त्वमेव देव ! मन्यन्ते ततस्तत्त्वस्पृशो वियत् ॥ ५ ॥ अनन्तरत्नभाजोऽपि रत्नत्रयवतो मम । १. समुद्रास्ते जडात्मानः प्रकृण्यन्तां कुतः प्रभो ! ॥ ६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org