SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ विरचिताः ] साधारणजिनस्तवाः देवाश्चेत् कामिनीपादप्रणामा नम्र मौलयः । ततोsस्तु स्वस्ति भण्डेभ्यः संस्तुमो विटपेटकम् ॥ ९ ॥ नमो लीलाविलासाय पानशौण्डकलाय च । वन्दामहे भुजङ्गाङ्घ्रीन् निर्वाणप्राप्तिहेतवे ॥ १० ॥ उद्गायन्तः प्रनृत्यन्तो विनिघ्नन्तश्च नित्यशः । यद्युपास्याः शिवश्राद्धैस्ततो योगजुषो हताः ॥ ११ ॥ पाणौ शस्त्रं प्रिया श्रोणौ शिखी भाले गले फणी । सायं नृत्तं वृषो यानमहो ध्येयस्य साधुता ! ! ! ॥ १२ ॥ आदिशन्तः परं ब्रह्म मृत्कुशाग्नितिलोदकैः । त्वदन्ये कस्य हास्याय न जायन्ते विबुद्धयः ॥ १३॥ ( १७५) येऽमलस्यान्तरस्यापि स्नानेन ब्रुवतेऽत्ययम् । तेऽपि ग्राह्यगिरः पश्य लोकस्यापानमत्तताम् ॥ १४ ॥ #1 - स एव वाग्मी स श्राद्धः स प्रज्ञालः स मेधिरः । त्वत्प्रणामकिणैर्यस्य शुभंयोः पत्रलं शिरः ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम || चन्द्रावदातचरिताश्चितविश्वचक्र ! । शक्रस्तुताङ्घ्रिसरसीरुह ! दुःस्थसार्थे दैव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy