________________
marwarimanwwwimwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwma
सरिविरचिताः] साधारणजिनस्तवाः (१६७ )
अद्यश्वीनो भवाम्भोधिसमुत्तारस्त्वदञ्चिनाम् । .. अधप्रातीनमेवेशं सिद्धिसौधाधिराहणम् ॥ १० ॥ वैहासिकः कथं न स्यादसौ निर्वाणकुट्टिमे । यः स्याद् भवद्गुणोद्घोषवाचाटश्चाटुकर्मभिः ॥ ११ ॥ नि नकिन्नरीगीतगन्धारग्रामसौरभैः । मेरीमुखोदरोद्गीणैर्व्याकुलाशानि भाङ्कृतेः ॥ १२ ॥ प्रचलच्चामरोबुद्धगन्धवाहविशृङ्खलैः । धौतदिग्गजगण्डाङ्कदानाम्नांसि जलोमिभिः ॥ १३ ॥ चारीप्रचारनिर्घातपतद्भिः शैलसानुभिः । कम्पमानावनीव्यग्रनागराजशिरांसि च ॥ १४ ॥ त्वजन्म मज्जनारम्भसंरम्भोत्कर्षहर्षणैः ।। हरन्तु डिम्बषण्डानि ताण्डवानि बलत्विषः ॥ १५ ।। स्वामिन्ननन्तफलकल्पतरो ! ऽभिराम
- चन्द्रावदातचरिताञ्चितविश्वचक्र ! । शकस्तुताघिसरसीरुह ! दुःस्थसाथै
देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
[६४ ] अर्हते देवदेवाय शीर्णसंसारहेतवे । पर्याप्ताशेषकृत्याय ज्योतिर्मात्रात्मने नमः ॥ १ ॥
घन्दारुशककोटीररत्नच्छायाच्छटाच्छिदः । - तमो मुष्णन्तु विश्वस्य भवत्पादनखांशवः ॥ २॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org