SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ (१६८) जैनस्तोत्रसन्दोहे [श्रीरामबद्ध तव क्रमनखादर्शरङ्गोत्सङ्गाग्रनर्तकीम् । स्वस्य पश्यन्ति ये मूर्ति कस्यास्ते नास्पदं श्रियः ॥ ३ ॥ विशीर्णाशेषदोषस्य कामाहङ्कारहारिणः । भवता देवदेवोऽस्तु को नामैकधुरः पुरः ॥ ४ ॥ पंथा तवापि गच्छन्तः सोरम्भा यान्ति दुर्गतिम् । यादांस्यपि जिनाधीश ! दह्यन्ते जातवेदसा ॥ ५ ॥ स्वयम्भुशम्भुवैकुण्ठैः शिल्पनाट्यच्छलोभटैः । यदा क्षिप्तमिदं विश्वमर्वाक्दृष्टि तदौचिती ॥ ६ ॥ हर्षाश्रुक्षालिता दृष्टिर्या न पश्यति ते मुखम् । सा पश्यति मदोत्तानचक्षुषां विद्विषां क्रमौ ॥ ७ ॥ त्वदुक्ततत्त्वयोग्यायामलङ्कर्मीणचेतसाम् । किमस्मिन्न षडक्षीणं त्रिलोकेऽस्तु सुमेधसः ॥ ८ ॥ तेजस्तेषां यशस्तेषां तेषां गौरवडम्बरम् । स्वर्गस्तेषां शिवं तेषां येषां त्वयि मनो रतम् ॥ ९ ॥ तव प्रसादैरानन्दं जिघृक्षोः स्थावरं परम् । यायावरेषु कः कामोद्यावाश्माजन्मशर्मसु ॥ १० ॥ भवद्वाक्यसुधासारैः कर्णाः पूर्णा न ये मुहुः । आकस्मिकरुषो मन्तुस्ते पूर्यन्ते वचोविषैः ॥ ११ ॥ कामव्यालविषोच्छालमूर्छालमनसां नृणाम् । नरेन्द्रवृन्दवन्द्यानिर्भवानेवाहितुण्डिकः ॥ १२ ॥ यादसामिव पाथांसि स्वर्गों दिविषदामिव । विश्वम्भरेव मानां विरतेरिव मर्त्यता ॥ १३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy