________________
परिणीताः ]
साधारणजिनस्तवाः
तस्यावश्यं पुरो मुक्तिर्योsध्वनीनस्तवाध्वनि । वृष्टौ प्रकाशमानस्य तिग्मांशोरिव कार्मुकम् ॥ ६ ॥ सद्यः पुष्यन्ति ये योषित्पाद घातमहोत्सवैः । अशोकगोत्रिणो देवास्ते पुरस्ते सृणं तृणम् ॥ ७ ॥ मञ्जुसिञ्जानमञ्जीरं निःस्वनद्भुजकङ्कणम् । अग्रतस्ते शचीलास्यं दृश्यं धन्यस्य कस्यचित् ॥ ८ ॥
साध्यस्तुम्बुरोर्वीणाप्रपञ्चस्वरसञ्चयः । त्वद्गणादघोषणोत्कण्ठैर्योगीन्द्रैरपि यः स्तुतः ॥ ९ ॥ कर्ममर्मभिदि श्राद्धो यः स्याल्लालाटिकस्त्वयि । असो जायेत विश्ववक्त्राम्भोजललाटिका ॥ १० ॥ भवतोऽचिन्त्यतेजांसि वचांसि सहजान्यपि । यथाधरं यथाम्भसि परिणाममुपासते ॥ ११ ॥ सा ते सचेतसः कस्य विस्मयाय न जायते । अवाचः कुर्वती वाणी गतिश्च भुवि कण्टकान् ॥ १२ ॥ त्वत्प्रणामकिणश्रेण्या भालसूर्यस्य सिध्मला ।
(१)
दन्तुरा शक्रकोटीरभाभिस्तस्याङ्घ्रिपीठिकाः ॥ १३ ॥ हास्यादपि भवत्पादाः कापि तैर्वीक्षिता ध्रुवम् । दुर्नयैकनिषण्णानामपि येषां शुमोदयः ॥ १४ ॥
तवाङ्घ्रिनखरज्योत्स्नाशिखाचू डालभूमिषु ।
जहालोत्कण्ठवैयात्यात् कामुकी मुक्तिकामिनी ॥ १५ ॥ स्वामिन्ननन्तफलकलपतरो ! ऽभिरामचन्द्रावदातचरिताचितविवचक्र ! |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org