________________
( १६४ ) जैनस्तोत्रसन्दोहे . [श्रीराम
विषयविषघूर्णनावेगभङ्गुरस्तुत्यकृत्यमार्गाणाम् । .. अमृतप्रवेशकुशलं तव शासनमेव जाङ्गुलिकः ॥ १३ ॥ अभवनिरस्तु शिवस्य स्वर्गस्य क्षमाश्रियश्च नित्यमपि । यदि भवति भवति तुष्टे स्वातन्त्र्यं मे सदा भवतु ॥ १४ ॥ अर्हन्ननन्तसुख ! शाश्वतिकावलोक !
विश्वोपकारिकरुणागृह ! मुक्तिनाथ । निःक्लेश ! निर्मम ! निरामय ! निःस्वभाव !
देवाधिदेव ! कृतसेव ! नमो नमस्ते ॥ १५॥ भवसङ्क्लेशसन्तप्ताराम चन्द्रांशुरोचिषि । प्रसीद यच्छ संवासं तस्यां मे निर्वृतिक्षितौ ॥ १६ ॥
__ [.६२] अनास्पद ! मनोवाचामिन्द्रियाणाममोचर ? । श्रद्धाविशुद्धिविज्ञेय ! श्रीमन्नर्हन् ! नमोऽस्तु ते ॥ १ ॥ पात्रं न वाचां सद्रूपं यत् पात्रं तदसत् पुनः । अवास्तवात् ततः सर्वे संस्तवास्त्वयि वस्तुतः ॥२॥ सामान्यात्मा विशेषात्मा सर्वश्वेद् वस्तुधिस्तरः । अन्यगीर्यः किमेकान्तविशिष्टा भवतो गिरः ॥ ३ ॥ कस्यचिन्नागदकारस्तामसस्य भवानपि । उलूफलोचनस्थस्य तिमिरस्येव भानुमान् ॥ ४॥ त्वयि श्रद्धोद्गमानाथ ! जानाम्यात्मनि भव्यताम् । कुतः सौदामिनी वास्विाहकन्थ्ये विलयसिः ॥ ५॥ ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org