________________
श्रीरामचन्द्रसूरिकताः ] साधारणजिनस्तवाः
(१६३ )
दुरितानि हरसि जनयसि भद्राणि तनोषि मक्षु दिक्षु यशः । किमपरमुपनयसि शिवं त्वमेव जिन ! दृष्टमात्रोऽपि ॥२॥ नृत्यत्पुरन्दरवधूसिन्दूरपरागपिञ्जरदिगन्तम् । तव समवसरणमशरणशरणं शङ्केऽस्मि न गतोऽहम् ॥ ३ ॥ अपविस्मयविगतस्मयविश्वत्रयरूपदर्शनादर्श !।. गिरमिव सर्वपथीनां न दृष्टवानस्मि तव मूर्तिम् ॥ ४ ॥ पुरुहूतपाणिसञ्चार्यमाणकनकाम्बुजाङ्कविश्रान्ता । न भुवि न वियति गतिर्या तव समजनि सा न मे साक्षात् ॥५॥ तव पथि वितमसि विरजसि सच्छाये सामृते महासरले। अपरपक्षाधिगमकरे कृतवानहमीश ! नास्मि पदम् ॥ ६ ॥ आजन्मरुचां रुचिधामगुरुतिरस्कारसारभारखनिः । दुःखग्रामकुटुम्बी त्रातस्तेनाऽस्म्यहं जातः ॥ ७ ॥ लक्यति यस्तवाज्ञामात्मन्ययमीश ! वैरमुद्हति । ... यः स्वात्मन्यपि वैरी कृपालुरन्येषु स कथं स्यात् ? ॥ ८ ॥ लक्ष्मीप्रभवे पुरुषोत्तमाश्रये सत्वधाम्नि निस्ताघे। यस्तब समयोदन्वति मजति स परं ब्रजति पारम् ॥ ९॥ जम्भारिचक्रकृतसेव ! देवदेवस्त्वमेव खलु विदुषाम् । .. ये पुनरपरे देवास्ते देवाः कष्मलमतीनाम् ॥ १० ॥ तव वचनसुधारसपानपावनीभूतकर्णपथकुहरः । कलुषविषगर्भिताभिर्मुह्यति को वाग्भिरपरेषाम् ॥ ११ ॥ अमरासुरनरलक्ष्मीः सौभाग्यं वहति तावदेवेयम् । भवदुपदेशसकणैर्न वीक्ष्यते चापलं यावत् ।। १२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org