________________
wwwimirmiawwwwwwwww
( १६२ ) जैनस्तोत्रसन्दोहे [पण्डितावतंससङ्ग्रामाब्धि प्रबलविलसद्वाहिनीसन्निपातो- .
द्यत्कीलालाकुलितसकलप्राणिवर्ग क्षणेन । निर्मथ्यान्तः सपदि बलिना भूभृता बाहुनैव __ श्रीकान्तत्वं दधति कति न त्वत्प्रसादामृतार्दाः ॥ २९ ॥ प्रौढोत्पाता अपि विदधते....क्षमाकम्पनाशा. प्लोषप्रायाः प्रशममचिरा....राष्ट्रषु तेषाम् । ये नि:स्यन्दीकृतनिजहृदा निःप्रकम्पक्षमं त्वा
मासावल्लीस्तवकनघनं निर्विरामं स्मरन्ति ॥ ३० ॥ स्फूर्ति बिभ्रत् परशुभरतो भद्रकुम्भाधिकश्री
विनश्रेणीहरणनिपुणः कोऽपि देवोऽयमेकः । श्रेयः कर्मोद्गमसमुचितारम्भसरम्भभाज
स्तद् भोरेनं गमयतितमा निष्प्रमादं प्रसादम् ॥ ३१ ॥ भालं कृत्वाञ्जलिमुकुलितं सोऽहमभ्यर्थये त्वां
तृष्णात वा कथयतु जनो मामथो न्यस्ततृष्णम् । यद् यत् किश्चिजगति परमानन्दसम्पत्तिकन्दस्तत्तन्मह्यं वितर वितर त्वं प्रसीद प्रसीद ॥ ३२ ॥
.. [६१ ]
षोडशिकाः साधारणजिनस्तवाः।
सकलसमयोपबृहकसमयस्थितिजन्तुमखिलतुल्यगिरं । गतपापं गतपुण्यं पुण्यकृते जिनपतिं स्तौमि ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org