________________
(.१५०)
जैनस्तोत्रासदोहे
भोयमबद्ध
पनि चाटूनि कियन्ति कुर्महे महेश ! युष्माकमपारसम्पदाम् । . विना न यः शर्म सतां सदोदयं वचोभिरेभिः किल किं न पूर्यते॥३०॥ विघटय कलुषाणि भुर्भुवःस्वर्घटय घटां शिवसम्पदामपाराम् । उपनय गुरुकर्ममर्मभेदं नय भवभीतिमसम्भवामवस्थाम् ॥३१॥ माहात्म्यं तव परिमातुमीहते यः सख्यातुं जगदणुसञ्चयं स लोलः। साफल्यं तदपि सुमेधसः स्ववाचामाधातुं विदधति ते गुणप्रशस्तिम्३२. तां पुण्यपापजयिनी कनकाभिराम
चन्द्रांशुपुञ्जविशदामधिगम्य भूमिम् । आत्यन्तिकीमनुभवामि यथा मुदं मे श्रीनाभिनन्दन ! तथा प्रथय प्रसादम् ॥ ३३ ॥
श्रीशीलवर्द्धनगणियोग्यं सं. ११९९॥
(५८] शान्ति-द्वात्रिंशिका.
( अपूर्णा) सदोदितानन्दमनन्तदर्शनं निरन्तरालोकमशोकविस्मयम् । अबैरसौहार्दमपुण्यकल्मषं स्मरामि शान्ति दुरितोपशान्तये ॥ १ ॥ शुभाशुभान्तःकरणैकसाक्षिणे जगद्विपत्तिप्रतिघातकाक्षिणे । यथार्थबोध [प्रविधान ] वेधसे नमोऽस्तु ते तीर्णभवार्णवाभ्भसे॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org