SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सूरिविरचिता ] श्रीयुगादिदेवद्वात्रिंशिका ( १४९ ) व्रतं विहाय स्पृहयन्ति ये श्रियं व्रजन्ति ते पूज्यतमां परे दशाम् । त्वया पुनर्देव ! विमुञ्चतां व्रतं स्थितिः प्रक्लृप्ता मलिनानुरूपिणी ॥ १९ ॥ तदेव नास्त्यस्ति तदेव चेत्ययं चलाचलस्ते वचनस्य डम्बरः । शिवाय कस्याप्याशिवाय कस्यचिन् मुदेऽथ कस्याप्यमुदेऽथ कस्यचित् २० अमुत्र यत् किञ्चिदचिन्त्यवैभवं सनातनं शर्म न तत्र साक्षिणः । इहापि गच्छंस्तव देव ! वर्त्मना भवत्यवाच्यस्य न भाजनं जनः ॥ २१॥ गुणैकरूपा गमभङ्गशालिनी चकास्ति येयं तव वाक्यवागुरा । स एव दूरं विनियन्त्रयते न या य एव बन्धैरचिराय मुच्यते ॥ २२ ॥ प्रसीद सीदन्तममुं जगज्जनं नियोजय कापि महार्थकर्मणि । क्षमाभृति त्वय्यपि शासति प्रजामजातदैन्याः कथमीश ! नाङ्गिनः ॥ ऋतुक्रियाभिर्विषयोपदेशनां निशम्य वाचो हृदयमा जनः । विरोधिनीर्वैषयिकस्य शर्मणः क एव ते सूक्ष्मगिरोऽनुरुध्यते ॥२४॥ विशृङ्खलैर्योऽमृतपोऽपि लज्जते प्रियाप्रणामप्रमुखैर्विकर्मभिः । परां परेतैरपि यान्ति पूज्यतामहो विमोहान्धलमानसं जगत् ॥ २५ ॥ प्रसादमासाद्य कुतीर्थिनां जनः स लाघवोऽपि ध्रुवमेत्य गौरवम् । तव प्रासादा (न्) न पुनर्मुहुर्मुहुः स गौरवोऽप्यञ्चति लाघवं परम् २६ अकल्पवृक्षा विबुधप्ररोहिणी विशीर्णदोषा गुरुराजराजिनी । समुत्थितज्योतिर कृष्णवर्मिका त्वयि प्रभो ! सारतभूरभूदियम् ||२७|| शुभाशुभं बाह्यमथान्तरं भवत्प्रणीतसंवादि विलोकयन्नपि । प्रशान्तिवन्ध्यैर्महिलाभिरुक्तिभिः प्रतार्यते पश्य परैः कथं जनः ॥ २८ ॥ सतां न तत् कौतुकमस्तु विप्लुते यदेष भूयांस्तव गौरवोदयः । - कृपाद्विषः कामजुषः परां परे यदञ्चितिं यान्ति तदेव कौतुकम् ॥ २९ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy