SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सूरिविरचिता] श्रीशान्तिद्वात्रिंशिका (१५१) क्लमानुविद्धेषु भिदेलिमेषु च स्पृहा कुतो वैषयिकेषु कर्मसु । भवद्वचः प्रीतिचिलीत (न) चेतसः पदे परेऽपि क्रमशो विराशिषः ॥३॥ यदि प्रभावो व्यसनापशान्तये विचेतनानामुपलास्थिवीरुधाम् । अनश्वरज्ञानमयस्य किं ततो न ते प्रभावः प्रभविष्णुरापदः १ ॥४॥ कुतीर्थिनां कापि कृतार्चि (र्थि ) ता गिरः कचित्तु जीवानुविधातपिच्छिलाः। त्रिलोकलोकाभयदानदीक्षिता जिनेन्द्र ! सर्वत्र तु सूक्तयस्तव ॥ ५ ॥ प्रतीपमेतां भवकृत्यनिम्नगां विगादुमाजीवितवृत्ति यः क्षमः । प्रवेशतीब्रामघसानशीतलां स एव वीथ तव यातुमर्हति ॥ ६ ॥ गिरं परेषां भवतन्त्रसूत्रणीं कृताञ्जलिः को न शृणोति - सोत्सवः । वचः पुनस्ते भवतन्त्रसूदनं सकामधीरुद्विजते ततस्ततः ॥ ७ ॥ न विस्मयोऽसौ यदमी सुधाभुजो भुजिष्यतां यान्ति नदीष्णचेतसः । सविस्मयो यद्विनमन्ति ते वयं विवेकदुःस्था अपि मेदिनीरुहः || ८ || विसम्पदो ये सरुजश्च ये परैस्तिरस्कृता ये न च ये सुमेधसः । स्मृता न हास्यादपि नाथ ! तैर्भवत्पदद्वयी जातु युगान्तरेष्वपि ॥ ९॥ न कौतुकं यद् भवतोऽपि शासनाद् गानाः परावो जगदीश ! कोटिशः : गरीयसी सा ननु भाग्यभूमिका यया त्वमीशो भगवानवाप्यते ॥ १० ॥ महौजसश्चेत् प्रलयप्रसादयोस्तथा सतां काममधीश्वराः परे । अरोषतोषः परमार्थदृश्वनां त्वमेव देवः शिवकाङ्क्षिणां पुनः ॥ ११ ॥ प्रियाप्रणामश्रमखिन्नमौलयः परे क च त्वं क च वीतबिप्लवः । भवन्निरासेन भवेच्छयार्थिनस्तथापि तान् केचिदुपासते जडाः ॥ १२ ॥ १ भवच्छिदार्थिनः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy