SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ( १४० ) जैनस्तोत्र सन्दोहे [ श्रीरामचन्द्र शक्तिर्यदि मानसं विजेतुं किमखिलदुः खगृहस्थचिन्तनेन । जनकजनककर्मणो वचोभिः किमिह परैर्विभवार्जनावबोधैः ॥ १९ ॥ प्रवचनपरिधारिणोऽप्यमी ये विदधति कर्मसु तामसेषु वृत्तिम् । खलु तेषु बहिश्चरित्रमुख्यः सुगतिमपोहत एव ते निदेशः ॥ २० ॥ निवसति स जडेषु या न नाम श्रीलोलेषु दधाति नास्पदं च । शिवभूमीसख विना न सा श्रीः पदयुगली तव लभ्यते महद्भिः ॥ २१ ॥ विसदृशमपि भावजातमेतद् युगपदशेषविशेषमीश ! बिभ्रत् । समवसृतिमही च शासनं च द्वयमपि सोदरतां ध्रुवं ददाति ॥ २२ ॥ मयि शोकधनी प्रवासनी च प्रभवपराभवभारविक्लवस्य । भवति खलु जनस्य सौममस्यं तव वचनामृतविप्रुषां निषेकैः ॥२३॥ अवर्त्मनि वचः पतेरपि गिरामसौ मादृशां मलीमसदृशां ध्रुवं त्वयि क एव देवस्तव । तथापि सफलों मम स्तवनसम्भवोऽयं श्रमः फलन्ति नहि देवताः किमुत भावनाः स्वाः सताम् ||२४|| [ ५५ ] उपमाभिः जिनस्तुतिद्वात्रिंशिका | Jain Education International समस्तभुवनेष्वपि नोपमा ते स्तुत्यै पुनर्जिनपते ! प्रयतत्तवास्मि । उद्दामदामरचना मम तत्खपुष्पैः सैषा न साध्यमिह वा तव किं महिम्नः ॥ १ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy