SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ( १३६ ) जैनस्तोत्रसन्दोहे वाताधिकास्तनुभृतो हि घनागमेन [ श्रीरामचन्द्र विश्वोपकारिपयसापि वहन्ति पीडाम् ॥ १२ ॥ तान्यद्भुतान्यहरहः प्रविलोक्य पूर्वं सद्दृष्टयो जिन ! भवन्तु न तत्र चित्रम् । अस्मादृशः खलु कुतूहलधाम योऽय मप्रेक्षिताद्भुतलवोऽपि यथार्थदृष्टिः ॥ १३ ॥ Jain Education International प्राप्तः कथञ्चिदपि तावदयं तवाध्वा श्रद्धालु तत्त्वमिदमस्ति मनोऽपि सम्यक् । तं किञ्चिदप्यथ पृथुं प्रथय प्रसादं येन क्रियास्वपि भवत्यमलासु वृत्तिः ॥ १४ ॥ कालाय विश्वमहिताय नमोऽस्तु तस्मै तेभ्यस्त्रिधामि विनतः सततं जनेभ्यः । यामैश्चतुर्भिरुपदेशगिरोऽभिवर्षन् यत्रासि जिन ! कृतो निजनेत्रपात्रम् ॥ १५ ॥ मार्गान्तरप्रणयवासितचेतसोऽपि स्वर्गीकसां चिरमुपासत एव लक्ष्मीम् । तत्किञ्चिदस्ति मितपुण्यमपास्तपापं स्थानं तु नेतुमलमेष तवैव पन्थाः ॥ १६ ॥ ताः सम्पदोsपि विपदः खलु यावदुक्तसूक्ताञ्जनामृतदृशां सुखयन्ति चेतः । श्लेष्मज्वरार्त्तवपुषां शिशिराम्बुपान स्वास्थ्यस्य जीवितविहारपरो विपाकः ॥ १७ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy