SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ www सरिविनिर्मितः] श्रीमुनिसुव्रतदेवस्तवः अस्मासु दुःस्थितशिरोमणिषु प्ररूढ श्रद्धाकणेषु करुणा तव तन्न चित्रम् । श्रद्धानवन्ध्यमनसः पशवोऽपि येनाऽऽ कृष्टाः स्वयं भगवता भवसिन्धुमध्यात् ॥ ७ ॥ लक्ष्मीः प्रणश्यति चिरं सरुजो भवन्ति नीचैरपि प्रसभमीश! तिरस्क्रियन्ते । त्वद्वाक्यतत्त्वपरिबोधसुधापराञ्चः कां कां न नाथ ! विपदं कलयन्ति लोकाः ॥ ८॥ किं तैः श्रुतं किमवधारितमार्यकार्य ___ वन्ध्येषु किं परिणतं च महेश ! तेषु । वाचस्तवापि निशमय्य शमैकरूपा लोकद्वयद्विषि विकर्मणि ये रमन्ते ॥ ९ ॥ कारुण्यमावह शरण्य ! कृपास्पदेषु किं देवदेव ! तव दृष्टिरियं पराची। तैस्तैर्जगत्रयजयैः क्षतपुण्यपापै ___ स्ते सन्तु सङ्कटतमाः शिवभूमिभागाः ॥ १० ॥ भूमीभुजां त्रिदशभूमिभुजां च कुन्द कोशावदातमहसः ककुभां मुखेषु । खेलन्ति याः सपदि कीर्तिकुरङ्गनेत्रा . स्तास्ते पदाम्बुरुहभक्तिवधूभुजिष्याः ॥ ११ ॥ किं कौतुकं नवसुधामधुरैर्यदीश ! । सूक्तैस्तवापि परितप्यति कोऽपि पाप्मा । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy