SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ( १३४ ) जैमस्तोत्रसन्दोहे यस्य क्रमाम्बुरुहमुद्गतचक्रचाप लाध्यान्तरस्य विरहेण गिरां कवीन्द्राः माश्रित्य कर्म्मजयिनः कति नाम नाऽऽसन् ? ॥ १ ॥ यस्मात् तव स्तवनसम्भविना महिम्ना स्तोत्रणि ते जिन ! गृणन्ति शिवावहानि । प्राप्तिः शिवस्य कृतिनां कियती फलाप्तिः ॥ २ ॥ तेषां गिरः खलु गिरः कविचक्रवाले ते नाम बिभ्रति यशः कुसुमावतंसम् । येषां मुखाम्बुरुहमञ्चति वास्तवाय वाग्देवता भगवती भवतः स्तवाय ॥ ३ ॥ ये त्वां स्तुवन्ति परदूषणघोषणाभि स्ते जाड्यकश्मलदृशः परमार्थवन्ध्याः । एषापि कापि विपणिर्ननु मूढतायाः सत्तां यदन्यविषयां सहतेऽन्तरात्मा || ४ || तस्मै नमः सकलकालशिरोवतंसलक्ष्मीगृहाय समयाय महोदयाय । यत्र त्रिलोकविभवप्रभवैकमित्रे Jain Education International [ श्रीरामचन्द्र चेतस्तवाङ्घ्रिकमलोत्सुकमाविरस्ति ॥ ५ ॥ श्रेय निमित्तमपि ये गृहमेधिनोऽपि धावन्ति वैभवभराय धनोद्भवाय । निःसङ्गतैकशरणानि पदं शरण्य ! स्वप्नेऽपि तेषु कृतवन्ति न ते वचांसि ।। ६ ।। For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy