________________
सूरिविनिर्मितः ] श्रीमुनिसुव्रतदेवस्तवः (१३३ ) ommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm प्रगुणनायकतां स्वयमेव तां दधदशेषितदुष्कृतवैकृतः। सकललोकशिरःकृतसंश्रयः श्रयति यो नवमौक्तिकयष्टिताम् ॥ २६ ॥ न धरणीसुविरागमुपैति यः किल नवालिसमोन्नतविग्रहः । अरिपुरीत्यधिकं प्रमनःस्थितिः प्रकटयत्यहरीशमहोबलम् ॥ २७ ॥ न चरणाश्रयणं भरतो दधौ स्फुरति किञ्चन रौरवनिग्रहम् । मनसि यस्य गुरुश्च नगाधिभूर्वसति नूतनरागकलाश्रितः ॥२९॥ युग्मम् विषमहारि विजृम्भितमीयुषः श्रवणवीक्षणतुल्यलसदृशः । फणपतेर्न च यस्य कलान्तरं किमपि भोगपरित्यजनं विना ॥२९॥ शुचिदशाश्रयदीप्रमहोदयः कुशलभासितसन्ततनामभृत् । दधदजस्रनिरञ्जनतां न यः स्फुरति कोऽपि नवः खलु दीपकः ॥३०॥ जगति पूर्वविधैर्विनियोगजं विधिनतान्ध्यगलत्तनुतादिकम् । सकलमेव विलुप्यति यः क्षणादभिनवः शिवसृष्टकरः सताम् ॥३१॥ इत्थङ्कारमकारणैकसुहृदं विश्वस्य पार्थ जिनं
तं स्तोतुस्त्रिजगद्विलक्षणगुणग्रामाभिरामाकृतिम् । .. यः कश्चिद्विकचीबभूव बत मे भाग्यातिरेकस्ततः
स्तल्लोकव्यतिरिक्तमुक्तियुवतिप्रेमप्रमोदोत्सवः ॥ ३२ ॥
[५३] श्रीमुनिसुव्रतदेवस्तवः ।
देवस्तनोतु हरितोत्पलकोंशकान्तिः
शान्तिं श्रियं च परमां मुनिसुव्रतो वः।
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org