________________
( १३२ )
जैनस्तोत्रसन्दोहे । श्रीरामचन्द्र
mwwwwwwwwwwwwwwwww
प्रमदयन्नमृतेन कृताञ्जलीन् गततृषः शिखरिश्रियमावहन् । अकलुषः कमठाम्बुदवृष्टिभिस्त्वभिनवः किल यः कमलाकरः ॥१५॥ प्रकटयनवनस्थितिपाटवं भुवि कलां कलयनिह हारिणीम् । सकलकामसमुद्भवसौहृदः श्रयति यो नवकेसरिणः श्रियम् ॥१६॥ दधदहो विबुधाश्रितपादतां भुजगराजिविराजितमौलिताम् । किमपि यः स्वगुणैर्भुवनाद्भुतैर्दिविषदामचलादतिरिच्यते ॥ १७ ॥ सुमनसामधिगम्य तयाऽत्र यः श्रयति नन्दनतां कमलाचले। परमयं शतधारिभिदेलिमाद्भुतमहाबलवैभवशोभितः ॥ १८ ॥ विबुधकुञ्जरतां विततान यः कनकसानुमति स्थितिमाश्रितः । विजयिनागकृतोच्चरणः परं शितितनुः सततं विमदोदयः ॥ १९ ॥ शिरसि बिभ्रदहीन्द्रनिभाजटापटलमिष्टफलस्फुटपादभृत् ॥ तनुकलां कलयन्नभसः सखीमभिनवः खलु यः सुरपादपः ॥ २० ॥ भुवनतापकृदक्षणिकोन्नतिर्भुवि विकीर्णरजाक्षतकन्दलः । अपर एव विनीलधनद्युतिर्य इह भाति गिरौ विहितस्थितिः ॥२१॥ अहरसत्कवृषोदयमादधद् भृशमरालवयो (१) नुदयन्मदः । वहति मानसमप्यजलाशयं स्फटिकशैलयशा नव एव यः ॥ २२ ॥ असमरत्नजिघृक्षुजनं नयनहह कन्दरमीरितदुर्गतिः । वहति सद्गुणरोहणतां परं य इह नागवरश्रियमाश्रयत् ॥ २३ ॥ निजशिरस्यहिमक्षयमावहन्नपि निवर्तितवेपथुरङ्गिनाम् । य इह नव्यशिवोदयकृद्गिरीश्वरतया जगति स्पृशति प्रथाम् ॥ २४ ॥ स्फुरदगस्तिमिताद्भुतवैभवः परमशङ्गगणेन च न श्रितः । कमठभृङ्गभृदस्खलितक्षमस्त्वजनि यो नव एव महोदधिः २५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org