SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सूरिविनिर्मिता ] ( १३१ ) अकृत तल्लवनाश्रयि कर्म यः स्फुटमपातकपङ्ककलङ्कितः । त्रिजगदुद्धरणोद्धुरया धुरा नववराहतया विदितः क्षितौ ॥ ४ ॥ परमहंसमनोहरविग्रहः शुचिचतुर्वदनः कमलालयः । समधितिष्ठति यः परमेष्ठितां वहति नैव तु वेदसमुन्नतिम् ||५|| हरिमनोहर चित्र चरित्र भूर्ज गति बिभ्रदनन्स इति श्रुतिम् । भजति यः कलितं बलडम्बरं कमपि नैष तु काममपालयन् ॥ ६ ॥ व्यतिरेकद्वात्रिंशिका परशुभासितनीलतनुद्युतिश्चरणसंश्रयसाधुवृपस्थितिः । वहति विघ्नविनायकतां परं सकलनागशिराः खलु यः श्रुतः ॥ ७॥ असमशक्तिरनङ्गशरज्वरानुपहतः स्फुटपावकजन्मभृत् । जगति योऽत्र बभार कुमारतामयमहो स्वयमेव तु तारकः ॥ ८ ॥ क्षणविनश्वरविश्वमय स्थितिं व्यवहरन् विदितः खलु मारजित् । भजति बुद्धकलां स्वयमेव यः प्रथयति स्म पुनर्न निरात्मताम्॥९॥ जितमनस्कतया सुसमाधितां दधदपि प्रथयन् वपुषः क्ष्यम् । परम योगरहस्य निवासभूरितरनाथविलक्षण एव यः ॥ १० ॥ निखिलविश्वगशाश्वतरूपभृन्निजगुणोद्यतशब्द मनोहरः । भजति काञ्चन योऽभिनवाम्बर श्रियमनश्वरतारकशीतगुः ॥ ११ ॥ अनुपलभ्यखमण्डलडम्बरः सकलतारकवैभवभासुरः । य इह क्लमकलानिधिकौशलो नवमहः स्फुरितं तुलयत्यलम् ॥१२॥ न कमलं विकचं कुरुते गवां व्यतिकरैर्विकिरंस्तमसस्ततिम् । मुदितकौशिकसंश्रितपादतां वहति योऽत्र नवीनदिवाकरः ॥ १३ ॥ न वियति स्थितिवल्गितमादधे न खलु कैरवबोधकृदक्षि यः । क्षणदयाधिगतप्रणयो नवामृतकरः कलिताभ्युदयो नवः ॥ १४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy