SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ( १३० ) जैनस्तोत्रसन्दोहे [ श्रीरामचन्द्र कालकूटमपि सत्यमुत्कटं यत्प्रभाववशतः सुधायते । विश्ववल्गदघमृत्युहारिणो नेदमद्भुतममुष्य वा प्रभोः ॥ २९ ॥ येन सान्द्रकरुणार्द्रचेतसा वैभवाभ्युदयभङ्गिसङ्गिना । उद्घृतं विपदुदन्वतो जगद् विश्वदुर्गतिहृतः श्रियः सताम् ॥ ३० ॥ यस्य संस्मरणमीक्षणं गुणोत्कीर्त्तनं स्नपनमर्चनं च तत् । पूरयत्यसुमतां मनोरथान् किं न वा भगवतः शुभावहम् ? ॥ ३१ ॥ एवं विशेषकमवाप्य जिनं सुवृत्तकार्त्तस्वरक्षितिभृताखिललोकलक्ष्मीः” । व्यक्तान्यवीक्षणरसा विदधे क्षणेन क्षोभावो भवति वा तिलकप्रयोगः || ३२ || [ ५२ ] पार्श्वनाथस्य व्यतिरेकद्वात्रिंशिका | Jain Education International Acples यदिह देवकदम्बकतः स्वकैर्गुणगणैस्त्वमसि व्यतिरेकभूः । तदवतंसितशारदया दयानिलय ! तत्प्रयतोऽस्मि तव स्तवे ॥ १ ॥ स भवताद् भवतां भवतान्तिहृद् मुजगभूषणभूः परमेश्वरः । जंगति 'पूरितकाममहोत्सवः कनकसानुगतो नवशङ्करः ॥ २ ॥ स्फुटसुदर्शननन्दकविक्रमः सकलविश्वनिषेव्यमहोदरः । इह बभौ भुवि यः पुरुषोत्तमः कमठकीर्त्तिसहस्तु न केवलम् ॥३॥ For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy