________________
( १२६ ) जैनस्तोत्रसन्दोहे [पण्डिताघसंस
mmm. अमी न नम्रावनिशासिनां शिरःस्रजः पुरस्ते पतयालवोऽलयः । । अपि त्वसौ पादनखांशुताडिता गलत्यहो पापमलस्य मालिका ॥२१॥ इदं न ते नीलतनूरुचामुपर्युदश्चि दन्तोज्ज्वलरोचिरासदः । जगत्त्रयीमङ्गलवल्लिकाननं चकास्त्यदः किन्तु लसत्प्रसूनकम् ॥२२॥ इयं न ताम्राङ्घिनखांशुमञ्जरी जिनेश ! लेश्यापि तु भाति तैजसी । विनम्रदुष्कर्मदिधक्षया तव प्रसन्नपद्भ्यां झटिति स्फुटीकृता ॥२३॥ . इदं न मौलौ धरणोरगेश्वरस्फुरत्फणालीफलकं जगत्पते ! । तवापि तु ध्यानसुधाम्बुपायिनः करातपत्रं भुवनश्रिया धृतम् ॥२४॥ अयं न गाङ्गेयगिरिस्त्वमप्यसौ न चेह नीलीदलसोदरद्युतिः । अदस्त्रिलोकाभरणैकपङ्कजं हिरण्मयं किन्तु सनीलषट्पदम् ॥२५॥ नमस्यतां भालतलेषु नैष ते जपासखः पादनखत्विषां चयः । पदं ददत्याः सुकृतश्रियस्त्विदं विराजते यावकरागवल्गितम् ॥२६॥ अयं न नीलोपलशेखरायितं त्वदीयमूर्तिस्तपनीयभूधरः । जगत्सु कल्याणनिपः स्फुरत्यपि त्वसौ वतंसार्पितनीलपल्लवः ॥२७॥ इयं न ते पादनखांशुमण्डली सतां ललाटाङ्गणकुङ्कुमच्छटा । उदेष्यतः पुण्यरवेरपि त्वसावबन्ध्यसन्ध्याभ्रकदम्बडम्बरः ॥२८॥ फणीन्द्ररत्नाञ्चितमेचकधुतामिदं न ते वृन्दमुदेति देहतः । नभःकृतावासमपि त्वदस्तडित्वतां कदम्बं कमठाम्बुभृज्जयात् ॥२९॥ यमीष्टसिद्धेहमिन्द्रनीलजं न ते विनीलाङ्गरुचामयं चयः । इदं त्वया किन्तु वियन्नखच्छविच्छलात् स्वतेजःप्रसराय कल्पितम्॥३०॥ विभाति भोगीन्द्रफणामणिप्रभा क्षमाभृतामीश ! न ते शिरस्यसौ । अपि त्वयं सिद्धिवधूविभूषणोपयोगभूगैरिकधातुसश्चयम् ॥३१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org