SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीरामचन्द्रसूरिकृता ] अपह्नुतिद्वात्रिंशिका ( १२५ ) अशोषिताशेषरुजस्तव प्रभो ! न धर्मचक्रं पुरतः स्फुरत्यदः । स्वकुष्ठनिष्ठापननिष्ठुराशया समाश्रितः किन्त्वयमीश्वरस्त्विषाम् ॥१०॥ अयं जिनानामधिराज ! राजते न ते जितारिव्रज ! वज्रभृद्ध्वजः । असौ स्फुटं किन्त्वतिवृद्धिविश्वगत्वदीयकीर्तेरवलम्बयष्टिका ॥ ११ ॥ सुवर्णशैलः किल नायमत्र ते जिनेन्द्र ! नैतद् भवनं च निर्मलम् 1 असौ कुमारक्षितिभृद्यशोङ्करः शुभैककन्दा भु (दु) दगादपि त्वतः ॥ १२ ॥ इयं न ते पादनखोज्ज्वलद्युतिर्विनम्रभालेष्वभिषङ्गमङ्गति । तदाश्रया पुण्यलिपेरपि त्वदः प्रमार्ज्जनोस्वलमम्बु वल्गति ॥ १३ ॥ तव प्रभाचक्रमुदचिमेचकं चकास्ति नैतन्मणिमात्रपन्नगम् । तनुं दधानः क्षणदामयि त्विदं विभाति सप्तर्षिविभूषितं नभः ॥ १४ ॥ स एव रोचिष्णुकडारकेसरच्छटाकटप्रा तप (तव) मौलिपृष्ठतः । नृसिंह ! नैदं तु महः कदम्बकं विडम्बयद् बिम्बमशीतरोचिषः ||१५|| इदं न फुल्लत्फणभृत्फणामणीमहस्तवोच्चैः शमिनामधीश्वर ! | समुल्लसद्ध्यानसुधाभयात् त्वहेर्विषार्चिरेतन्मिषतः पलायितम् ||१६|| इदं तव ज्योतिरुदेति विष्टपत्रयोदरख्यापि जिनेश ! न त्वदः । अहीन्द्ररत्नाक्षिकरस्फुरन्नखैरुपर्यधोमध्यविकस्वरं महः ॥ १७॥ न रक्तकङ्केल्लिरसौ चकास्ति ते निषेवते त्वामपि नृत्वगुप्तये । अशेषषड्जीवनिकायतायिनं मुनीश ! रागः स वनस्पतीभवन् ॥१८॥ जिन ! द्विजानां तव देशनावनावमी न कान्तिस्तबकाश्चकासति । विमुक्तिकान्ताभरणाय किन्त्वयं कृपापयः सागरमौक्तिकोत्करः ॥ १९॥ न मूर्ध्नि भूषा प्रणयी फणीश्वरं क्षमाभृतामीश ! बिभर्षि किं पुनः । अमुं दधानेन कलापिना त्वया शिवं विरोधप्रशमा प्रकाश्यते ॥ २० ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy