________________
श्रीरामचन्द्रसूरिकृता]
अपह्नतिद्वात्रिंशिका
(१२७ )
mmarANAND
nwwwwwwwwww
गगनपुलिनप्रेख ज्योतिर्नखोत्करतारका
तव तनुरियं श्यामा वामातनूद्भव ! भासते । शुचिरदरुचिर्नैषा व्याख्याविधाविह केवला___ऽभिनवशशिनः सच्चक्राणा मुदेऽपि तु कौमुदी ॥३२॥
श्रीपार्श्वनाथस्य। अर्थान्तरन्यासद्वात्रिंशिका
धर्मार्थकामात्मकमीश ! ते गिरा निर्बाधमर्थत्रितयं प्रसाधयन् । . . अर्थान्तरन्यासविधि समीहते सोऽयं जनस्तावकभूमिकातिथिः ॥१॥
संस्तुतौ तव जिनेश ! नेशते तेऽपि वन्ध्यधिषणाः पुरन्दराः । तत्र सादरमतिस्तदप्यहं कोऽपि वा स्खलति नो मनोरथः ॥२॥ अश्वसेनतनुभूः स भूयते यः स्वयं फणिफणोष्णवारणम् ।
बिभ्रदन्तमनयञ्जगत्त्रयी तापमद्भुतगुणा हि सजनाः ॥३॥ : - येन काञ्चनगिरौ विनिर्ममे शासनोन्नतिवधूकरग्रहः ।
युक्तमेतदथवा कुमारतां बिभ्रतां खलु भुजङ्गसङ्गिनाम् ॥४॥ रक्षितो विषधरः कृपालुना येन तापसहुतासविह्वलः । आपदं गतवति द्विजिह्वकेऽप्युत्तमाः स्युरुपकारतत्पराः ॥५॥ यत्प्रसादमुदितस्तदा फणी प्राप नागनगराधिराजताम् । स्तमेषु नियमेन रागिणां सम्पदः करतले गतापदः ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org