SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ( १२०) जैनस्तोत्रसन्दोहे [श्रीमुनिचन्द्र सबिन्दु लक्ष्मी चान्ययुगजलधामाभिधमहो ___ परं तत्त्वं नीचैर्जनवशकरं नाम तदपि ॥ ५ ॥ चतुर्थी प्राग्वान्तमथ हुतभुक्तृप्तिविचनं . वरैर्वर्णे रेभिर्दशसहितषड्भिः परिगतं . परिज्ञातं तत्वं जयतिकलिकुंडाख्यममलं ॥ ६ ॥ - तदित्थं सम्पूर्ण गुरुजनगिरा दोपहरणम् पवित्रे पात्रे च स्फुरदमलसौराष्ट्रिकमये ___ शुचिश्रीखण्डेन प्रचुरतरप्सौभाग्यगुणिना । त्रिमुष्टिप्रामाण्यैः कुशसहितदभैर्विलसितं . क्षणादेतत् तत्त्वं भुवि विजयते स्वास्थ्यजनकम् ॥ ७ ॥ अशक्तं शाकिन्याः शिरसि निहितं शङ्कशकलं कृतं लीलामात्रान्निखिलपरविद्याविदलनम् । विशीर्णा चेदानी जगति ननु दाहज्वरकथा पुरः साक्षाद् दृष्टे जयति कलिकुण्डे भगवति ॥ ८ ॥ प्रचण्डो दण्डोऽयं सपदि कलिकुण्डस्य सहसा भवेद् भूतादीनां प्रकटमिह दण्डो निरवधिः । अंसावेव त्राणं भवति नियतं मान्त्रिकतते___रपि क्षुद्रार्तायाः कचिदपि कथंचिद्विधिवशात् ॥ ९ ॥ इति श्रीमान् पार्श्वः प्रभुरखिलकल्याणवसतिः समुद्रो विद्यानामतिशयवतीनां निरुपमः । स्थितः सिद्धिस्थाने महितमुनिचन्द्रप्रकटित स्फुरन्मन्त्रात्मा मे शमयतु समग्रं भवभयम् ॥ १० ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy