SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ मूरिप्रणीतम् ] श्रीकलिकुण्डपार्श्वजिनस्तवनम् (११९) वन्ध्यापि लभते पुत्रं मृतवत्सा च गर्भसूः । दुर्भगाः सुभगाश्चैव *मन्त्रयन्त्रानुभावतः ॥ १० ॥ . [४८ ] श्रीमुनिचन्द्रमूरिप्रणीतम् श्रीपार्श्वनाथस्तवनम् । नमामि श्रीपार्श्व कलिगिरिशिरःकुण्डनिकट प्रदेशावस्थानाधिगतकलिकुण्डाभिधमहम् । तदासन्नायातक्षितिपबहुमानातिशयतः स्वयं प्रादुर्भूतप्रतिममखिलोपद्रवहरम् ॥१॥ . त्वमतवं ध्येयस्त्वमनिशमुपास्यः सुकृतिनां त्वमाजम्यः सम्यक् किमिह बहुना त्वं च शरणम् । त्वमेवासि त्राता जगति कलिकुण्ड ! त्वदपरो ___ न कश्चित् क्षुद्रोपद्रवहरणदक्षः क्षतभयः ॥ २ ॥ सकारान्तं बीजाक्षरमध उकाराग्रिमयुतं कृतो धोयन्तिं द्विजपतिकलाबिन्दुकलितम् । निविष्टान्तर्नाम प्रणवयुगकोटीपरिगतं ____ ज्वलद्वत्रैर्युक्तं दिशि विदिशि चाष्टाभिरभितः ॥ ३ ॥ अधोवस्याग्रात् परिवृतमकारादिभिरपि द्विरष्टाभिर्वर्णं रइतिचरमैर्दक्षिणगमात् । अथोकारं मायाक्षरमलवयस्याथ उपरि रकारं तत्षष्ठस्वरशशिकलाबिन्दुकलितम् ॥ ४ ॥ ..चतुर्थ च प्राग्वत् प्रकटतरसंयोगरचितं ततः पूर्व दीर्घ ननु गरसमेतं तमथ च । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy