SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ( ११८ ) जैनस्तोत्रसन्दोहे [ ४७ ] श्रीवादिदेवसूरिप्रणीतं श्रीकलिकुण्डपार्श्वजिन स्तवनम् । [ श्रीवादिदेव आर्त्तनामोदरं कृत्वा हुंकारं रेफसंयुतम् । नादबिन्दुसमायुक्तं ॐकारं सम्पुटे स्थितम् ॥ १ ॥ दिक्षु वज्राष्टसम्भिन्नं षोडशस्वरवेष्टितम् । वज्राप्रेषु च सर्वेषु मूलमन्त्रं यथास्थितम् ॥ २ ॥ श्वेताम्बरधरो मन्त्री शुभध्यानपरायणः । उत्तराभिमुखो भूत्वा लिखेद् यन्त्रं शुभोदये ॥ ३ ॥ काश्यभाजनमध्ये तु चन्दनेन सुगन्धिना । लिखेद्दर्भस्य लेखिन्या मुष्टित्रयप्रमाणतः ॥ ४ ॥ सुगन्धैः कुसुमैः श्वेतैः अष्टोत्तरशतेन च । अर्चयेद् विधिना यन्त्रं फलं यावद् दिने दिने ॥ ५ ॥ लिखितं पूजितं चैव प्रक्षाल्य सुजलेन तु । तज्जलं पीतमात्रं तु परविद्याविनाशनम् ॥ ६ ॥ शाकिनीभूतवैतालपिशाचोरगराक्षसाः । भवन्ति निःप्रभाः सर्वे यन्त्रस्यास्य प्रभावतः ॥ ७ ॥ शूलं विशूचिकाऽजीर्ण लतादिस्फोटकादयः । अग्निचोरकृतात् (भीतिः) विषं स्थावरजङ्गमम् ॥ ८ ॥ गर्भस्य वेदना यस्या गूढगर्भा तु या भवेत् । एवं रोगैस्तु दुःखार्ताः सुस्थाः स्युः सर्वजन्तवः ॥ ९ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy