SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] श्रीपार्श्वनाथस्तवनम् (११७) षट्कोणयन्त्रमध्ये जन्मजरामृत्युनाशनं पार्श्वम् । पुनरुक्त्या च प्रणवं ह्रींकारं दोषविनिकारम् ॥ ३ ॥ मायाबीजं हं ह्रः सनाथमथ यः समस्तसुखदक्षः । किश्च त्रैलोक्यसखं ध्वनिसारं फट् फट् स्वाहा ॥ ४ ॥ एकान्ते सुदृढमना ऐन्द्रीहरिदभिमुखः पवित्राङ्गः। श्रीपार्श्वनाथचरणाम्बुजसेवामधुकरः सुकृती ॥ ५ ॥ ध्यानविधौ निष्णातो ब्रह्मस्थः सदगुरूपदेशेन । यो ध्यायति त्रिसन्ध्यं तस्याऽवन्ध्यो भवेदेषः ॥ ६ ॥ .. नारिन हरिन करी नाऽहिर्नाग्निर्न सागरो न गदः । न क्ष्मापतिर्न दस्युर्न रुजा नाकालमरणमपि ॥ ७ ॥ तस्य भयाय प्रभवति हृदये जागर्ति यस्य पार्श्वेशः । पवनेरिताम्बुदा इव किन्त्वेते झटिति विघटन्ते ॥ ८ ॥ दुष्टसुरशाकिनीग्रहमुद्गलवेतालराक्षसप्रमुखाः । विलुठन्ति किङ्करा इव पदयोः पार्श्वक्रमध्यातुः ॥ ९ ॥ स कविर्वादी वैद्यो दैवज्ञो मन्त्रतन्त्रनिष्णातः ।। सकलकलानां निलयो भवति हृदि स्मरति यः पार्श्वम् ॥१०॥ एवं कमठाधिष्ठित- . . . सुमन्त्रगर्भ जिनेन्द्रपार्श्वस्य ।। यः पठति स्तवमनिशं स कविकुलप्रभतया घटते ॥ ११ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy