________________
सूरिप्रणीतम् ]
चतुर्विंशतिजिनस्तवनम् ( १२१ )
Jain Education International
[ ४९ ] कविचक्रवर्त्तिश्रीपालविरचितं
श्री चतुर्विंशतिजिनस्तवनम्
भक्त्या सर्वजिनश्रेणिरसंसारमहामया । स्तोतुमारभ्यते बद्धरसं सारमहा मया ।। १ ।। श्रीनाभेय ! भवान् पुंसामलङ्कारमणीयते । अभूत् ते चित्तमाक्रष्टुमलं का रमणी यते ! ।। २॥ समुलङ्घितसंसारकान्तार ! तरसाऽजित ! | मां पुनीहि जगन्नाथ ! कान्तारतरसाजित ! ॥ ३ ॥ निरस्तः केन मोहस्त्वां विना शम्भव ! दारुणः । तेनासि दहनीकर्तुं विनाशं भवदारुणः ॥ ४ ॥ अभिनन्दन ! युष्मासु सदाचरणधीरता । जेतुमेनांसि नान्येषां सदा च रणधीरता ॥ ५ ॥ श्रीः पुंसां सुमते ! ध्वस्तकलितापाय ! दक्षता । तद्भक्तेस्तत्र पापेषु कलिता पापदक्षता ।। ६ ।। पद्मप्रभ ! सिषेवे त्वां मुक्ताहारमुदारता । त्वयि लोकत्रयी मुक्तिमुक्ताहार ! मुदा रता ।। ७॥ सुपार्श्व ! देशनायां ते चतुराननकोमलाः । गिरः श्रुत्वा न तुष्टाव चतुरानन ! कोऽमलाः ॥ ८ ॥ चन्द्रप्रभ ! भवानेव सत्तमः सप्रभावताम् ।
यो धत्ते चैव सञ्जेतुं सत्तमः सप्रभावताम् ॥ ९॥
For Personal & Private Use Only
www.jainelibrary.org