________________
विरचितम् ]
श्री गौतमस्वामिस्तवनम्
( ११५ )
नीरागस्य तपस्विनेोऽद्भुतसुखवाताद् गृहीत्वा दलं तस्याः स्वच्छशमाम्बुधे रसभरं श्रीजैनमूर्तेर्महः । तस्या एव हि रामणीयकगुणं सौभाग्यभाग्योद्भवं मध्यानाम्बुजहंसिका किमु कृता मूर्त्तिः प्रभो ! निर्मला || ४ || किं ध्यानानलगालितैः श्रुतदलैराभासिसद्भावना
किमु शीलचन्दनरसैरालेपि मूर्त्तिस्तव । सम्यग्दर्शनपारदैः किमु तपः शुद्धैरशोधि प्रभो !
मच्चित्ते दमिते जिनैः किमु शमेन्दुग्रावतश्चाघटि || ५॥ किं विश्वोपकृतिक्षमोद्यममयी ? किं पुण्यपेटीमयी ?
किं वात्सल्यमयी : किमुत्सवमयी पावित्र्यपिण्डीमयी ? ।
किं कल्पद्रुमयी मरुन्मणिमयी किं कामदोग्धीमयी या धत्ते तव नाथ ! मे हृदि तनुः कां कां न रूपश्रियम् ॥६॥ किं कर्पूरमयी सुचन्दनमयी पीयूषतेजोमयी
किं चूर्णीकृत चन्द्रमण्डलमयी किं भद्रलक्ष्मीमयी ? | किं वाऽऽनन्दमयी कृपारसमयी किं साधुमुद्रामयी —
त्यन्तर्मे हृदि नाथ ! मूर्त्तिरमला नाऽभावि किंकिंमयी ? ||७|| अन्तःसारमपामपास्य किमु किं पार्श्ववजानां रसं
सौभाग्यं किमु कामनीयसुगुणश्रेणी मुषित्वा च किम् ? । सर्वस्वं शमशीतगोः शुभरुचे रौज्ज्वल्यमाच्छिय किं ?
जाता मे हृदि योगमार्गपथिकी मूर्तिः प्रभो ! तेऽमला || ८|| ब्रह्माण्डोदरपूरणाधिकयशः कर्पूरपारीरजः
पुत्रैः किं धवलीकृता तव तनुर्मध्यानसमस्थिता ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org