SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिजिनस्तुतिः श्रीने ! प्रीतिराप्तेन ! भवता मेघवारिणा । चातकस्यैव वक्त्रान्तर्भवता मेघवारिणा ॥ २२ ॥ गणिप्रणीता ] यस्त्वां पार्श्वजिन ! स्तौति परमानन्दभावितः । तस्मिन् नित्योदिता रागं परमानन्द भावितः ! ॥ २३ ॥ त्वया जितान्यदेवर्द्धिर्वर्द्धमानप्रभावतः । त्वयि देवाधिदेवत्वं वर्द्धमान ! प्रभावतः ॥ २४ ॥ जिन ! त्वद्वदने दृष्टे रजनीश्वरहारिणि । प्रीतिर्मम तमोराशेरजनीश्वर ! हारिणि ॥ २५ ॥ (७५) स्वर्णाञ्जनजपाब्जेन्दुरुचिराजितविग्रहाः । देयासुर्वः श्रियः सार्वा रुचिरा जितविग्रहाः ॥ २६ ॥ अवचूरिः 'क्रमाम्बुजं ० ' सुगमः । परं अघवारिणा भवता आप्तेन प्राप्तेन - मे मम प्रीतिरस्ति । शेषं स्पष्टम् ॥ २१ ॥ 'श्रीनेमे: ०' पूर्वार्द्ध स्पष्टम् ॥ २२॥ हे अवितः ! । तस्मिन् नित्यो-" दिता भा-प्रभा च केवलज्ञानरूपा । परं प्रकृष्टं रागं- स्नेहम् । आनन्द - बबन्ध । अदु बन्धने ' ॥ २३ ॥ ( वर्द्धमानो यः प्रभावः तस्मात् । अतो हेतोः त्वयि प्रभौ हे वर्द्धमान ! देवाधिदेवत्वमस्तीति योगः || २४ ॥ रजनीश्वरः- चन्द्रः तद्वद् हारिणि - मनोज्ञे । हे ईश्वर ! - स्वामिन् ! मे - मम । प्रीतिरजनि । तमोराशेहारिणि विनाशिनि ॥ २५ ॥ विग्रह: - देहो रणश्च । श्रियः कीदृशीः ? रुचिराः - मनोज्ञाः ||२६|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy