SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्र सन्दोहे कुन्थुनाथ ! जगन्माश्रीनन्दनजयेश्वर ! | असीमगुणलक्ष्मीणां श्रीनन्दन! जयेश्वर ! ॥ १७ ॥ चकृवांस्तव यः सेवां परमादरसङ्गतः । परं पदं स दुष्कर्मोपरमादरसं गतः ॥ १८ ॥ दुरन्तदुरिताम्भोधिकुम्भोद्भव ! भवापदम् । हत्वा तत्त्वाप्तयेऽधानां कुम्भोद्भव ! भवापदम् ॥ १९ ॥ ( ७४ ) [ श्रीचारित्ररत्न प्रणतस्त्वामहं देव ! सुमित्रभव ! भक्तितः । तन्मा नोचय विश्वैकसुमित्र ! भवभक्तितः ॥ २० ॥ क्रमाम्बुजं नमेः स्तौमि नतामरसभाजनम् । अस्प्राक्षीजातु यत्क्षोणीं न तामरसभाजनम् ॥ २१ ॥ अवचूरिः जगन्ति मथ्नाति - पीडयतीति जगन्माथः यः श्रीनन्दनः- कामस्तस्य जये ईश्वर ! - शम्भो । ! श्रीः नाम राशी तस्या नन्दनः - पुत्रः तत्सम्बोधनम् । असीमगुणलक्ष्मीणां हे ईश्वर ! -स्वामिन्! त्वं जय इति योगः ॥ १७ ॥ परमस्य-आदरस्य सङ्गतः - सङ्गेन यः तव सेवां चक्रवान् - चकार । स दुष्टकर्मणामुपरमात्- विगमात् हे अपर ! परं पदं सङ्गतः - प्राप्तः इति योगः ॥ १८ ॥ भवः - संसारः स एव दुःखरूपत्वाद् आपद् - विपत् तां हत्वा त्वं तत्प्राप्तये भव इति योगः । अघानां अपदं अस्थानम् ॥ १९ ॥ ' प्रणतस्त्वां ' सुगमः । परं भवेन- संसारेण कृत्वा या भक्तयः- भजनानि ताभ्यो मां मोचय इति योगः || २० || नता अमरसभा - देवपर्षत् जनाः - मानवाश्च यस्मै । तामरसानि - देव सञ्चारितकमलानि भाजनं आधारो यस्य ॥ २१ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy