SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ गणिप्रणीता] चतुर्विंशतिजिनस्तुतिः (७३) विमलेश ! श्रितोपान्तं सन्नतामरसंसदा । स्तुवे तवाऽङियुग्मं श्रीसन्नतामरसं सदा ॥ १३ ॥ नमस्कर्ता न तेऽनन्तराज ! मानवनायकः । गुणद्रुमाणां माहात्म्यराजमान ! वनाय कः ? ॥ १४ ॥ विश्वातिशायिमाहात्म्योदयाय परमाय ते । नतोऽस्मि धर्म ! निस्सीमदयाय परमायते ! ॥ १५ ॥ तव भक्तिं विना स्थानं सदा भावि भवोदधौ । अतस्त्वां सुकृती शान्ते ! सदाभाविभवो दधौ ॥ १६ ॥ अवचूरिः सन्नता-प्रणता या अमरसंसद्-देवपर्षत् तया श्रितोपान्तम् । निवा-शोभया सन्न-जितत्वेन विषण्णं तामरसं येन ॥१३॥ हे अनन्तराज ! ते-तुभ्यं नमस्कर्ता। कः ? मानवनायक:-मानवाना नायकः । सर्वातिशायिसम्पदन्वितत्वेन स्वामी न स्यादिति योगः । ते कीदृशाय? गुणदुमाणां वनाय-काननाय । हे माहात्म्यराजमान ! ॥ १४ ॥ परमा-प्रकृष्टा परमपदप्राप्तत्वेन आयतिः-उत्तरकालो यस्य तत्सम्बोधनम् । परा-प्रकृष्टा-मा-लक्ष्मीः अनन्तसुखादिरुपा यस्य तस्मै - परमाप । ते-तुभ्यम् । अहं नतोऽस्मीति योगः ॥ १५ ॥ .. सुगमः । परं, सुकृती कीदृशः ? सन्तौ-अन्येभ्योऽतिशायित्वेन विधिौ आभावियवौ-कान्तिद्रव्ये यस्य स सदाभाविभवः । भवति .. हि जिनभक्तिभाजो विभवादिसमृद्धिः ॥१६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy