SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ( ७२ ) जैनस्तोत्रसन्दोहे बुधाः ! सेवध्वमाप्तेशं सुविधिं कामदायकम् । यदि वो बुद्धिराराद्धुं सुविधिं कामदायकम् ॥ ९ ॥ देवान्तरैः कथं तेऽस्तु नन्दाभव ! समानता ! । यत्ते जगत्त्रयी जातानन्दाऽभव ! समा नता ॥ १० ॥ [ श्रीचारित्ररत्न मुक्त्यर्द्धा मतां दत्ते श्रेयांसं कमलाकरम् । स्वीमि गुणपद्मानां श्रेयांसं कमलाकरम् ॥ ११ ॥ सम्प्राप्तविश्वत्रितयीजयाङ्ग जमदान्तकम् । वासुपूज्य ! भजामि त्वां जया जमदान्तकम् ॥ १२ ॥ अवचूरिः । कामं - रागं द्यति-छिनत्तीति कामदायकस्तम् । सुविधि - शोभनाचारम् | कामाः - चिन्तितार्थाः तान् ददातीति कामदायकस्तम् ||९|| नन्दा नाम राज्ञी तस्या भवो यस्य । ते तव देवान्तरैः समानता - सादृश्यम् कथमस्तु ? | यत् - यस्मात् । ते तुभ्यम् । खातानन्दा - जातप्रमोदा समा-सकला विश्वत्रयी नता - ननाम इति योगः । हे अभव ! - असंसार ! ॥ १० ॥ नमत दत्तानि श्रेयांसि कल्याणानि येन तम् तथा । कमलांलक्ष्मीम् करोतीति कमलाकरः तम् तथा | गुणपद्मानां कमलाकरमिति योगः ॥ १९ ॥ सम्प्राप्तो विश्वत्रितय्या जयो येन एवंविधो योऽङ्गजः - कामस्तस्य मदः-दर्पस्तस्यान्तकं - विनाशकम् । जया नाम राज्ञी तस्या अङ्गजं-सुतम् । अदान्तं - केनाप्यनुपद्रुतं - कं- सुखं यस्य सः, अदान्तकं तथा ॥ १२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy