SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ गणिविरचिता] चतुर्विंशतिजिनस्तुतिः (७१ ) स्वगोभिर्जगतौ सर्वाभिनन्दन ! सुखाकरः । तप्तां भवार्तितापेनाऽभिनन्दन ! सुखाकरः ॥ ४ ॥ सुमते ! कृतनम्राङ्गिमङ्गलोद्भव ! भारती । तनुते तव विज्ञानां मङ्गलोद्भव ! भारती ॥ ५ ॥ देहातिजिता ताम्रपद्मप्रभमहीनतम् । सेवे शिवाय देव ! त्वां पद्मप्रभ ! महीनतम् ॥ ६ ॥ तस्मिन् सर्वश्रियां पापहृदये भवदागमः । वासं सुपार्श्व ! यस्याऽऽप हृदयेऽभवदागमः ॥ ७ ॥ येन त्वच्चरणे पूता चन्द्रप्रभ ! मही नता । सुलभा तस्य कीास्त चन्द्रप्रभ ! महीनता ॥ ८ ॥ अवचूरिः। हे सर्वाभिमन्दन !-सर्वाल्हादक ! त्वं सुखाकरोति स्म । कृग्धातो ल्वादिपाठबलात् शवपि । सुखस्य भाकरः ॥ ४ ॥ मङ्गला नाम राज्ञी तस्या उद्भवो यस्य । भा च रतिश्च भारती ॥ ५ ॥ अनन्ता-सम्पूर्णा ता-लक्ष्मीः अनतज्ञानादिरूपा यस्य तं अहीनतम् ॥ ६ ॥ . पापहृत्-अयः शुभकर्म यस्य तस्मिन् पापहृदये । सर्वश्रियां आगमोऽभवदिति योगः । शेषं स्पष्टम् ॥ ७ ॥ मही-पृथ्वी नता-नमस्कृता । महीनो-राजा तस्य भावः कर्म वा महीनता-राज्यमित्यर्थः ॥ ८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy